3.मधुस्फीता वाचः परमममृतं

मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन् ! किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन ! बुद्धिर्व्यवसिता ॥ ३॥



अन्वयः प्रतिपदार्थः च

ब्रह्मन्! मधुस्फीताः वाचः = मधुराः वाणीः - शब्दसौन्दर्ययुक्ताः इति भावः
परमम् अमृतम् = अर्थगम्भीरं मोक्षकारकं वेदवाङ्मयं च
निर्मितवतः = स्रष्टः
तव = त्वत्कृते
सुरगुरोः (बृहस्पतेः ‘च) ब्रह्मदेवस्य वा)
वाक् (वाणी) अपि किं विस्मयपदम् ? (आश्चर्यकारणं भवेत् किम् ? – नैव भवतीत्यर्थः । किं शब्दः आक्षेपे ) ।
पुरमथन (त्रिपुरहर) !
तु (एवं सति - यत्र ब्रह्मापि स्ववाण्या भवन्तं विस्मापयितुम् असमर्थः तर्हि मादृशानां का गतिः इति स्थिते )
तव गुणकथनपुण्येन (त्वत्स्तुतिजनितसुकृतेन)
वाण (वाचं)
पुनामि (शुद्धीकरोमि ) इति अस्मिन् अर्थे (एतत्कार्ये)
मम बुद्धिः (मनीषा)
व्यवसिता (निश्चिता, उद्यता ) ।

साहित्यविषयाः

छन्दः - शिखरिणी

मधुसूदनसरस्वतीव्याक्या

नन्वेवं स्तुत्यत्वेऽपि हरिहरयोः सर्वज्ञयोरनभिनवया स्तुत्या न मनोऽनुरञ्जनं तद्विना न तत्प्रसादस्तं विना फलमिति पुनरपि स्तुतेर्वैययै प्राप्ते सार्थक्यं दर्शयन्स्तौति -

मध्विति । हे ब्रह्मन् विभो, सुरगुरोर्ब्रह्मणोऽपि वाग्वाणी तव किं विस्मयपदं चमत्कारकारणं किम् । किंशब्द आक्षेपे । नेत्यर्थः । तत्र हेतुगर्भावशेषणमाह । तव कीदृशस्य । वाचो वेदलक्षणा निर्मितवतो निःश्वासवदनायासेनाविर्भावित्वतः । कीदृशीः । मधुवत्स्फीताः माधुर्यादिशब्दगुणालंकारविशिष्टत्वेन मधुराः। तथा परमममृतं निरतिशयामृतवदत्यास्वाद्याम् । एतेनार्थगतमाधुर्यमुक्तम् । परमेश्वरवाचां शब्दार्थगतयोर्निरतिशय माधुर्ययोरपि मिथस्तारतम्यं मध्वमृतश दाभ्यां द्योत्यते । अयं च वाचामुत्कर्षो महान् यत्र शब्दगुणालंकारातिशयं विनार्थगुणालंकारातिशय इति यत्र हिरण्यगर्भस्य वाण्यपि न चमत्कारकारणं तत्र का वार्ताऽस्मदादिवाण्या इत्यर्थः । तर्हि किं स्तुत्यत्यत आहमम त्वित्यादि । हे पुरमथन त्रिपुरान्तक, भवतो गुणकथनपुण्येन एतां स्वां वाणीं पुनामि निर्मलीकरोमीत्यभिप्रा येणैतस्मिन्नर्थे स्तुतिरूपे मम बुद्धिव्यवसितोद्यता नतु स्तुति कौशलेन त्वां रञ्जयामीत्यभिप्रायेणेत्यर्थः । वाङ्नैर्मल्येन मनोनैर्मल्यं नान्तरयिकमिति स्तुतेः सार्थक्यमुक्तम् ॥ हरिपक्षेप्यवम् । मथ्यतेऽस्मिन्दध्यानीति मथनं गोकुलम्, अथवा मध्यन्ते आपोऽमृतार्थमिति मथनः क्षीरोदः पुरं मन्दिरं गोकुलं क्षीरोदो वा यस्येति पुरमथन संबोधनार्थः । सर्वमन्यत्समानम् । अथवा हे ब्रह्मन्, वाचः सर्वस्या अपि प रमममृतं निरतिशयसारं निश्चयेन मितवतः सम्यगनुभूतवतः सुरगुरोर्हिरण्यगर्भादिसर्वदेवतोपाध्यायस्य तव मधुस्फीता मधुरिम्णा व्याप्ता अन्तरा कटुत्वलेशेनापि रहिता वागपि वाग्देवता सरस्वत्यपि किं विस्मयपदम् । नेत्यर्थः । तस्या मद्वाचश्च महदन्तरमतिप्रसिद्धमेव । यद्यप्येवं तथापि त्वदिच्छयैव ममेयं प्रवृत्तिरित्याह-ममत्वेतामिति । निजगुणकथनपुण्यन ममत्वतां ममत्वे वर्तमानां संसारसंस- र्गकलुषितां वाणीं वाचं एतस्य स्तुतिकर्तुरिति शेषः । पुनामि निष्कलुषां करोमीत्येतस्मिन्नर्थे हे पुरमथन, भवतो बुद्धिर्व्यवसिता यतोऽ तोनायत्तव मम प्रवृत्तिरित्यर्थः । श्रुतिश्च भवति ‘एष उ ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपते एप उ एवासाधु काश्यति यमयो निनीषते’ इति । स्मृतिश्च ‘अशो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव च’ इति । तेन परमकारुणिकस्त्वं शरणागतवाणीपावनपुण्यहेतुस्तुतितत्परं लोकं कर्तुं स्वयमेव प्रयतमानो यया कयापि स्तुत्या प्रसीदसीत्यर्थः ॥३॥

संस्कृत पद्याऽनुवादः

परमामृतरूपिणीं गिरं मधुरां निम्मितवान्भवान् स्वयम् ।
अत एव वृहस्पते रपि, वचनं विस्मयतां हि गच्छति ॥
भवतो गुणगान पुण्यतो, निजवाचं भगवन् ! पुनाम्यहम् ।
इति कारणता मया कृता, स्वमति स्वत्स्तुतिकर्मधर्मिणी ॥ ३ ॥