2.अतीतः पन्थानं तव
अतीतः पन्थानं तव च महिमा वाङ्मनसयोर्
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥
अन्वयः प्रतिपदार्थः च
तव महिमा (प्रभावः) वाङ्मनसयोः (वचोबुद्द्योः) पन्थानम् (मार्गम्) अतीतः (अतिवर्ती) (यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” इति श्रुतिः) ।
श्रुतिः (वेदः अपौरुषेयः चेद्) अपि यम् (देवम्) अतद्वावृत्त्या (“न तद्” = अतद् । <“सर्वं खल्विदं ब्रह्म” इति सर्वशब्देन सगुणपक्षे अभेदप्रतिपादनम् । “नेति नेति” इति निर्गुणपक्षे च ) चकितम् (भीतभीतम्) अभिधत्ते (तात्पर्येण कथयति) ।
सः (देवः) कस्य स्तोतव्यः (केन स्तोतुं शक्यः) ।
कतिविधगुणः (सगुणपक्षे अनन्तगुणयुक्तः किलेति भावः ) ।
कस्य विषयः (निर्गुणपक्षे न केनचिद् इन्द्रियेण ग्राह्यः इति भावः) ।
तु (परन्तु) अर्वाचीने पदे (नवीने स्थाने – भक्तानुकम्पया स्वीकृते शिवरूपे ) वचः (वाक्) न पतति ? मनः (न पतति ) ? (सर्वेषामपि मनुष्याणां वचांसि मनांसि च आकर्षति शिवमहिमा इति भावः।)
साहित्यविषयाः
छन्दः - शिखरिणी
मधुसूदनसरस्वतीव्याक्या
अतीतेति । पूर्वोक्तं संबोधनमार्वतनीयम् । तव महिमा सगुणो निर्गुणश्च वाङ्मनसयोः पन्थानं विषयत्वमतीतोऽतिक्रान्तः । चशब्दोऽवधारणे । अतीत एवेत्यर्थः । अनन्तत्वान्निर्धर्मकत्वाच्च । तथाच श्रुतिः ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इति । वागविषयत्वे तत्र श्रुतेः प्रामाण्यं न स्यादित्याशङ्कयाह । यं श्रुतिरप्यपौरुषेय्यपि वेदवाणी चकितं भीतं यथा स्यात्तथा अभिधत्ते तात्पर्येण प्रतिपादयति । सगुणपक्षे किंचिदप्ययुक्तं मा भूदिति निर्गुणपक्षे तु स्वप्रकाशस्यान्याधीनप्रकाशता मा भूदिति भयम् । केन प्रकारेण । अतद्यावृत्त्या सगुणपक्षे न तद्यावृत्तिरतयावृत्तिस्तया । अभेदेनेत्यर्थः । ‘सर्वं खल्विदं ब्रह्म’ ‘सर्वकर्मा सर्वकामः’ इत्यादिना सर्वभेदेनैव भगवन्तं प्रतिपादयति न त्वेकैकशो महिमानं वदतीत्यर्थः । निर्गुणपक्षे तु न तत् अतत् अविद्यातत्कार्यात्मकमुपाधिद्वयमिति यावनू । तद्ध्यावृत्त्या तत्परित्यागेन जहद1 जहल्लक्षणयेत्यर्थः । मायाविद्योपहित चैतन्यशक्तं तत्पदं तत्कार्यबुद्ध्याद्युपहित चैतन्यशक्तं त्वंपदमुपाधिभागत्यागेनानुपहितचैतन्यस्वरूपं स्वप्रकाशमपि तदाकारवृत्तिमात्रजननेनाविद्यातत्कार्यनिवृत्या बोधयतीवेति न तावता वाग्विषयत्वं मुख्यं तस्येत्यर्थः । अत एव स तादृशः सगुणो निर्गुणश्च महिमा कस्य स्तोतव्यः । कर्तरि षष्ठी । न केनापि स्तोतुं शक्य इत्यर्थः । सगुणस्य स्तोतव्यत्वाभावे हेतुमाह । कतिविधगुणः कतिविधा अनेकप्रकारा गुणा यत्र स तथा । अनन्तत्वादेव न स्तुत्यर्ह इत्यर्थः । निर्गुणस्य स्तोतव्यत्वाभावे हेतुमाह । कस्य विषय इति । न कस्यापि विषयः निर्धर्मकत्वात् । अत एवाविषयत्वान्न स्तुत्यर्ह इत्यर्थः । सगुणो ज्ञेयत्वेऽप्यनन्तत्वात् निर्गुणस्त्वकरूपोऽपि ज्ञेयत्वाभावान्न स्तुत्यश्चत्तर्हि स्वमतिपरिणामावधि गृणन्निति पूर्वोक्तं विरुद्ध्यतेत्यत आहपदे त्विति । अर्वाचीने नवीने भक्तानुग्रहार्थे लीलया गृहीतं वृषभपिनाकपार्वत्यादिविशिष्टे रूपे कस्य विदुषो मनो न पतति नाविशति, क स्य वचो नाविशति । अपि तु सर्वस्यापि मनो वचश्च विशतीत्यर्थः । तत्र हिरण्यगर्भस्यास्मदादेश्च सममेव स्तुतिकर्तृत्वमिति न पूर्वापरविरोधः ॥ हरिपक्षेप्येवम् । अथवा यं अतद्यावृत्त्या कार्यप्रपञ्चभेदाच्चकितं भीतं मद्भिन्नत्वेन कार्यप्रपञ्चं मा पश्यत्विति शङ्कमानं श्रुतिरभिधत्ते इति पूर्ववत् । अर्वाचीने पदे तु कमलकम्बुकौमोदकीरथाङ्गकमलालया कौस्तुभाद्युपलक्षिते नवजलधरश्यामधामनि श्रीविग्रहे वैकुण्ठवर्तिनि वेणुवादनादिविविधविहारपरायणे गोपकिशोरे वा वृन्दावनवर्तिनि कस्य मनो नापतति, कस्य वचश्च नापतति । अपगता ततिविस्तारो यस्मात्तदपतति । संकुचितमित्यर्थः । तव श्रीविग्र हानुचिन्तने तहुणानुकथने च विषयान्तरपरित्यागेन विलीयमाना: वस्थं मनो वचश्चकमात्रविषयतया संकुचितं भवति तव श्रीविग्रहे एवासक्तं भवतीति भावः ॥ २ ॥
संस्कृत पद्याऽनुवादः
न गोचरत्वं महिमा प्रयाति, तवेश ! वाणी - मनसोः कदाचित्
न वेद वेदोऽपि ततोऽभिधत्ते, “नेती” ति वाक्याञ्चकितं सदैव ( यमेव )
स्तुत्यः कथं स्यान्महिमा त्वदीयः ? कियद्गुणो वा विषयश्च कस्य ?
आत्मन्यनुग्राह्य पदे न कस्य, मनो वचो वा प्रसरत्यवश्यम् ॥ २ ॥
शक्त्युपस्थितार्थे किंचिदेशं परित्यज्य अवशिष्टार्थे लक्षणा जहदजहल्लक्षणा — यथा तत्त्वमसीस्यादौ तत्त्वमिति पदोपस्थितयोः सर्वज्ञत्वकिंचिज्ज्ञत्वाशयोः परित्यागपूर्वकं केवलचैतन्याभेदप्रतिपादनमित्याद्यम् ↩︎