1. महिम्नः पारं ते

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर! निरपवादः परिकरः ॥ १॥



(प्रथमार्धे सर्वस्तुतीनाम् अयोग्यत्वं प्रतिपाद्य परमेश्वरस्य अनन्तत्वम् अग्राह्यत्वं च सूचितम् । उत्तरार्धे पुनः सर्वस्तुतीनां योग्यत्वं समर्थनीयत्वं च सूचयित्वा कविः स्वकुशलताम् अमोघां दर्शयति ।)

अन्वयः प्रतिपदार्थः च

हर! ते (तव) महिम्नः (विभूत्याः) परं पारम् (अवधिम्) (अतिक्रम्य गन्तुम्) अविदुषः (अजानतः अज्ञस्य) स्तुतिः यदि असदृशी (अनुचिता अयोग्या असमर्था वा) (भवति) तद् (तर्हि) ब्रह्मादीनामपि गिरः (वचांसि) त्वयि (त्वद्विषये) अवसन्नाः (अशक्ताः) । अथ (पक्षान्तरे) स्वमतिपरिणामावधि1 (निजबुद्धिविस्तारं यावत्; स्वमनीषायाः विषयग्रहणशक्तिम् अनु) गृणन् 2 (कीर्तयन्) सर्वः अवाच्यः (अनिन्द्यः) । (अतः) मम अपि स्तोत्रे (स्तुतौ) एषः परिकरः3 (आरम्भः, प्रयत्नः) निरपवादः (न आक्षेपार्हः ; सः अनिन्द्यः एव ) ।

साहित्यविषयाः

छन्दः - शिखरिणी

मधुसूदनसरस्वतीव्याक्या

विश्वेश्वरं गुरुं नत्वा महिम्नाख्यस्तुतेरयम् ।
पूर्वाचार्यकृत व्याख्यासंग्रहः क्रियते मया ॥ १ ॥

एवं किलोपाख्यायते— कश्चित्किल गन्धर्वराजः कस्यचिद्राज्ञः प्रतिदिनं प्रमदावनकुसुमानि हरन्नासीत् । तज्ज्ञानाय शिवनिर्माल्य- लङ्घनेन मत्पुष्पचौरस्यान्तर्धानादिका सर्वापि शक्तिर्विनयतीत्य- भिप्रायेण राज्ञा शिवनिर्माल्यं पथि निक्षिप्तम् । तदप्रतिसंधाय च गन्धर्वराजस्तत्र प्रविशन्नेव कुण्ठितशक्तिर्बभूव । ततश्च शिवनिर्मा- ल्योलङ्घनेनैव ममैतादृशं वैक्लव्यमिति प्रणिधानेन विदित्वा परमका रुणिकं भगवन्तं सर्वकामदं तमेव तुष्टाव ।

ननु स्तुतिर्नाम गुणकथनं, तच्च गुणज्ञानाधीनम्, अज्ञातस्य तस्य कथनासंभवात् तथाच भगवतो गुणानामनन्तत्वेन ज्ञातुमशक्यत्वात्कथं तत्कथनरूपा स्तुतिरनुरूपा भवेत्, अननुरूपकथनं चोपहासायैवेति या शङ्का तदपनोदव्याजेन स्वस्यानौद्धत्यं दर्शयन्नेव भगवन्तं स्तोतुमारभते-

*महिम्नः पारमिति । हे हर, सर्वाणि दुःखानि हरतीति हरः । योग्यं संबोधनम् । सर्वदुःखहरत्वेनैव प्रसिद्धोऽसि, न मम दुःखहरणे पृथग्व्यापारं करिष्यसीत्यभिप्रायः । हे सर्वदुःखहर, ते तब महिम्नः परं पारमवधिमविदुषः एतावानेव महिमेतीयत्तयाऽजानतः । कर्तृत्व- संबन्धे षष्ठी । अजानत्कर्तृका स्तुतिर्यद्यसदृश्यननुरूपा । अयोग्येति- यावत् ।
तत्तर्हि ब्रह्मादीनां सर्वज्ञानामपि गुणकथनरूपा गिरस्त्वयि - विषयेऽवसन्नाः। अयोग्या एवेत्यर्थः । तैरपीयत्तयाऽज्ञानात् इयत्ता- या असत्त्वेन तदज्ञाने सार्वश्यव्याघातोऽपि न । सन्मात्रविषयत्वात्सर्वशत्वस्य । अन्यथा भ्रान्तत्वप्रसङ्गात् ।
तथाच श्रीभागवते - विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि’ इति । अथेति पक्षान्तरे । यद्येवं ब्रूषे तर्हि स्वमतिपरिणामावधि स्वस्य मतिपरिणामो बुद्धिविषयता स एवावधिर्यत्रेति क्रियाविशेषणम् । स्वबुद्ध्या यावद्विषयीकृतं तावद्गृणन् वाक्सृष्टिसाफल्याय कथयम्सर्वेऽपि स्तोताऽवाच्योऽनुपालम्भनीयः । ‘सा वाग्यया तस्य गुणान्गृणीते करौ च तत्कर्मकरो मनश्च । जिह्वाऽसती दादुरिकेव सूत न चोपगायत्युरुगायगाथाः’ इति च श्री भागवतवचनात् । तर्हि ‘नभः पतन्त्यात्मसमं पतत्रिणः’ इति न्यायेन ममाप्येष परिकर आरम्भः स्तोत्रे स्तोत्रविषये निरपवादोऽखण्डनीयः । स्वबुद्ध्यनुसारेण योग्य इत्यर्थः । प्रथमार्धेन स्तुतिनिराकरणव्याजेन सर्वदुरधिगममहिमत्वरूपा महती स्तुतिः कृता, उत्तरार्धेन स्तुतिसमाधानव्याजेन सर्वा स्तुतिरनुरूपेति महत्कौशलम् ॥ अन्यच्च गन्धर्वराजस्य महाकुशलस्वादेकेनैव श्लोकेन यथाश्रुति वक्ररीत्या च हरिशंकरयोः स्तुतिस्तयोरभेदज्ञानायाभिप्रेता तत्र हरपक्षे यथाश्रुति व्याख्यातं, हरिपक्षेऽपि तदेव योजनीयम् । संबोधनपदं तु अहरेति । हरतीति हरः संहर्ता तद्विरुद्धोऽहरः । पालयितेत्यर्थः । अथवाऽहः अहो परम परा मा लक्ष्मीर्यस्येति तथा हे लक्ष्मीपते । लक्ष्मीपतित्वान्ममालक्ष्मी स्वत एव नाशयिष्यसीति योग्यं संबोधनम् । यदि ते महिम्नः त्वन्महिमसंव- न्धिनी त्वन्माहमविषया स्तुतिः । गिरो महिम्न इति योजनापेक्षया ते स्तुतिरित्येव समीचीनम्, तत्तर्हि अवसन्नाऽल्पा असदृश्यननुरूपा- प्यस्तु, नत्वन्यदेवतानामनल्पाऽनुरूपापि । अत्र हेतुगर्भ विशेषणम् । तव कीदृशस्य । ब्रह्मादीनां स्तावकानां गिरः स्तुतिरूपायाः पारं विदुषः । स्तोतुः श्रमं स्तुतेर्गुणदोषौ च जानत इत्यर्थः । सर्वदेवस्तुत्य- त्वेन निरतिशय सार्वश्येन च तवैव सर्वोत्कृष्टत्वादित्यभिप्रायः । स्तुतिफलं दर्शयन् स्वस्य विनयातिशयं दर्शयितुमाह । अथ स्वं त्वां अति- परिणामावधि अतिक्रान्तो बुद्धिपरिपाकावधिः सीमा यत्र तादृशं यथा स्यात्तथा स्वशक्तिमतिक्रम्यापि गृणन्स्तुवन् सर्वोऽपि जनः अ वाच्य आभिमुख्येन वाच्यः । संभाषणीयस्त्वयेत्यर्थः । यस्मादेवं स- वथैवानुगृह्यते त्वया स्तोता अत एव ममापि स्तोत्रे स्तुतिकर्त्रे एप परिकरो नमस्कारादिप्रबन्धः । कीदृशः । अनिरपवादः न विद्यतेऽतिशयेनापवादो दूषणं यस्मात्स तथा । अहरिति वीप्सनीयम् । अहरहः सर्वदेत्यर्थः । यद्विषयकस्तुति कर्तृत्वेनान्योऽपि सर्वदा नमस्यः किमु वक्तव्यं स सर्वदा सर्वेषां नमस्यतरो भवतीति भगवति रत्यतिशयो व्यज्यते । एवं यस्यायोग्यापि स्तुतिः सान्निध्यफला तस्य योग्या स्तुतिः किं वा न फलिष्यतीति ध्वनितम् । हरपक्षेऽप्येवम् । तत्र प रम श्रेष्ठेति संबोधनम् ॥ १ ॥

संस्कृत पद्याऽनुवादः

भवन्महिम्नोऽन्तमजानतस्स्या, त्तवानुरूपा कथ मीश ! ते स्तुतिः ।
यतो विरिञ्चादिकदेवतानां, गिरोऽवसन्ना विषये त्वदीये ॥
अथ स्वबुद्धे विभवानुसार, वदन् न कश्चित्किदोष /(परिनिन्दनीयः)
प्रारम्भ एषोऽस्तु ततोऽपवादे, हनस्स्तुतौ मे हर ! सर्वथैव ॥ १ ॥


  1. “नभः पतन्त्यात्मसमं पतत्रिणः” इति न्यायेन – पक्षिणः यावच्छक्ति गगने उत्पतन्ति उड्डयन्ते वा इति अर्थः ↩︎

  2. गॄ gr̥̄ I. 9 P. (गृणाति, गूर्ण) 1 To utter a sound, call out, invoke; नामापि नाम गृणताममृतत्वाय कल्पताम् Mv.7.15. -2 To announce, speak, utter, proclaim; ब्रह्मर्षिभिः परं ब्रह्म गृण- द्भिरुपतस्थिरे R.10.63. -3 To relate, promulgate. -4 To praise. extol; केचिद्भीताः प्राञ्जलयो गृणन्ति Bg.11.21; Bk.8.77. With अनु to encourage; गृणद्भ्योऽनुगृणन्त्यन्ये Bk.8.77. -II. 6 P. (गिरति or गिलति) 1 To swallow, devour, eat up. -2 To send forth, pour out, spit out, or eject, from the mouth. With अव (Ātm.) to eat, devour; तथावगिरमाणैश्च पिशाचैर्मांसशोणितम् Bk.8.30. -III 10 Ā. (गारयते) 1 To make known, relate. -2 To teach. ↩︎

  3. परिकरः 1 Retinue, train, attendants, followers. -2 A multitude, collection, crowd; संध्याकृष्टावशिष्टस्वकर- परिकरस्पृष्टहेमारपङ्क्तिः Ratn.3.5. -3 A beginning, commencement; गतानामारम्भः किसलयितलीलापरिकरः Bh.1.6. -4 A girth, waist-band, cloth worn round the loins; अहिपरिकरभाजः Śi.4.65; परिकरं बन्ध् or कृ ’to gird up one’s loins, to make oneself ready, prepare oneself for any action’; बध्नन् सवेगं परिकरम् K.170; कृतपरिकरः कर्मसु जनः Śivamahimna 20; कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुम् Ve.3; G. L.47; बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता Amaru.97; U.5.12. -5 A sofa. -6 (in Rhet.) N. of a figure of speech which consists in the use of significant epithets; विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः K. P.10; e. g. सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः Chandr.5.59. -7 (In dramaturgy) Covet or indirect intimation of coming events in the plot or a drama, the germ or the बीज q. v; see S. D.340. -8 Judgment. -9 A helper, colleague, co-worker. ↩︎