रसप्रकरणम्
कॊवा रसः ?
रससिद्धान्तस्य प्रथमप्रस्थावः नाट्यशास्त्रे भरतमुनिना कृतम् ।
दोषरहितौ शब्दार्थौ यथा काव्यस्य शरिरं भवतः, काव्यस्य आत्मा भवति रसः।
काव्यं पठित्वा सहृदयानां मनस्सु या आनन्दानुभूतिः उद्भवति, स एव रसः ।
रसस्य स्थानानि त्रीणि -
- प्रथमं कवेः मनसि जातं
- अनन्तरं शब्दार्थयोः निक्षिप्तम्
- अन्ततः सहृदयहृदि प्रविशति
अतः रसस्य परिपाकः सहृदयहृदि एव ।
रसस्य सूत्रः कः?
प्रतापरुद्रीये रसप्रकरणे
विभाव-अनुभाव-सात्त्विक-व्यभिचारि-सामग्री-समुल्लसितः स्स्थायी भावॊ रसः। -
तथा चोक्तं दशरूपके
विभावैः-अनुभावैश्च सात्तिविकैर्व्यभिचारिणि ।
अनीयमानः स्वादुत्वम् स्थायी भावो रसः स्मृतः ।।
रससामाग्री रसनिष्पत्तेः साधनभूता विभावानुभावव्यभिचारिभावाः रसनिष्पत्तेः घटकानि ।
- विभावा: - रसनिष्पत्तेः हेतुकाः, रसोत्पादनकारणनि । विभावः पुनः द्विधा| आलम्बनं, उद्दीपनं च
- आलम्बनं पात्राणि भवन्ति ।
- उद्दीपनं वातावरणं इत्यादि भवन्ति I add details, examples of excitants.
- अनुभावाः - विभावैः शरीरजनित-चेष्टाः अनुभावाः, यथा कटाक्षवीक्षणं, मधुरवाक्यानां प्रयोगः इत्यादिः
- सञ्चारिभावाः - व्यभिचारिभावाः इति नामान्तरम् । विभावानुभावाभ्यां हृदये अत्पन्नानि तात्कालिकभावाः रसनिष्पत्तेः सहकारिणाः भवन्ति | इमे ३३ ।