Chapter 80

संस्कृतसाहित्यशास्त्रपरिचयः

साहित्यशास्त्र परिचयः

Subsections of संस्कृतसाहित्यशास्त्रपरिचयः

Subsections of काव्यशास्त्रस्य परिचयः

काव्यम् नाम किम्?

किम् वा काव्यम् ?

कवेः कर्म काव्यम् । काव्यं लक्षणभेदमुद्दिश्य बहुशो भिद्यते, तद्यथा -

गुणालङ्कारयुक्तौ शब्दार्थौ काव्यमिति - वामनः

निर्दोषगुणालङ्काररसवद्द्वाक्यं काव्यमिति - भोजः

गुणालङ्काररीतिरसोपेतः सन्दर्भः काव्यमिति - वाग्भटः

रमणीयार्थप्रतिपादकः शब्दः काव्यमिति - पण्डितराजः

ध्वन्यात्मकं वाक्यं काव्यमिति - महिमभट्टः

वाक्यं रसात्मकं काव्यमिति - विश्वनाथः

काव्यप्रकाराः

kavya_bhedas kavya_bhedas

रूपकप्रकाराः

दशरूपके -

नाटकं सप्रकरणमंको व्यायोग एव च।
भाण: समवकारश्च वीथी प्रहसनं डिम:।। (ना.शा. 18-2)
ईहामृगश्च विज्ञेयो दशमो नाट्यलक्षणे।
एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ (ना.शा. 18-3)

  1. नाटकः
  2. प्रकरणः
  3. अङ्कः
  4. व्यायोगः
  5. भाणः ,
  6. समवकारः
  7. वीथी
  8. प्रहसनम्
  9. डिमः
  10. ईहामृगः

नाटक लक्षणानि

महानाटक लक्षणानि

रामायणमधिकृत्य कृत नाटकानि

Subsections of रसप्रकरणम्

रसप्रकरणम्

कॊवा रसः ?

रससिद्धान्तस्य प्रथमप्रस्थावः नाट्यशास्त्रे भरतमुनिना कृतम् ।

दोषरहितौ शब्दार्थौ यथा काव्यस्य शरिरं भवतः, काव्यस्य आत्मा भवति रसः

काव्यं पठित्वा सहृदयानां मनस्सु या आनन्दानुभूतिः उद्भवति, स एव रसः ।

रसस्य स्थानानि त्रीणि -

  1. प्रथमं कवेः मनसि जातं
  2. अनन्तरं शब्दार्थयोः निक्षिप्तम्
  3. अन्ततः सहृदयहृदि प्रविशति

अतः रसस्य परिपाकः सहृदयहृदि एव ।

रसस्य सूत्रः कः?

प्रतापरुद्रीये रसप्रकरणे

विभाव-अनुभाव-सात्त्विक-व्यभिचारि-सामग्री-समुल्लसितः स्स्थायी भावॊ रसः। -

तथा चोक्तं दशरूपके

विभावैः-अनुभावैश्च सात्तिविकैर्व्यभिचारिणि ।
अनीयमानः स्वादुत्वम् स्थायी भावो रसः स्मृतः ।।

रससामाग्री रसनिष्पत्तेः साधनभूता विभावानुभावव्यभिचारिभावाः रसनिष्पत्तेः घटकानि ।

  • विभावा: - रसनिष्पत्तेः हेतुकाः, रसोत्पादनकारणनि । विभावः पुनः द्विधा| आलम्बनं, उद्दीपनं च
    • आलम्बनं पात्राणि भवन्ति ।
    • उद्दीपनं वातावरणं इत्यादि भवन्ति I add details, examples of excitants.
  • अनुभावाः - विभावैः शरीरजनित-चेष्टाः अनुभावाः, यथा कटाक्षवीक्षणं, मधुरवाक्यानां प्रयोगः इत्यादिः
  • सञ्चारिभावाः - व्यभिचारिभावाः इति नामान्तरम् । विभावानुभावाभ्यां हृदये अत्पन्नानि तात्कालिकभावाः रसनिष्पत्तेः सहकारिणाः भवन्ति | इमे ३३ ।

भाव

The Concept of Bhava

Bhava or to emote is the essence of literary and performing art. Bhava is the becoming. In other words, everything (objective or material) that can exist or comes in to existence is bhava. Going by this simple understanding, the state of mind and even the material conditions like birth and death or growth and decay or existence and transformation is bhava. This understanding can be extended to artistic creativity. The feeling and the thought process are the direct outcome of the state of mind in real life and at the same time, attributes like place, time, action, movement, gesture, posture, etc. can also be defined and described as bhava. The only difference that needs to be acknowledged is that in real life becoming is more due to direct implications of what we call the law of causation and with the reference to artistic creativity, it is the artist who influences it; using the sheer power of his imagination and creativity.

The artist does this by creating situations, incidents, characters and infusing attributes like feelings, thoughts, actions etc. It would be termed as process of “becoming” with the reference to artistic creativity more as, induced or caused and not as a production of material thing. In this light, Bharat Muni’s coining of the term “Nispatti” should be more interpreted as “Samavitti” means the process of creating intellectual awareness of an emotional experience through the means of Vibhava and other factors in the minds of the bhavaka or the spectator or the reader. This only leads to conclude that whether it’s a mental or material state, bhava means nothing but depiction of consciousness as rightly put by Bharata Muni – “Bhavayati iti bhava” and in this context, relating bhava with the expression artistic creativity is very much justified.

Bhava or to emote is the essence of literary and performing art. Bhava is becoming. Going by this simple understanding, state of mind and even the material conditions like birth & death or growth & decay or existence & transformation is bhava.

विभाव

Vibhava (hetu, karana, nimmita) means ‘cause’ of what happens or is happening in life. Bharata has termed it as ‘Vibhava’ and has described its primary purpose as, creating the awareness of the emotions that the creator (Poet/Author) intends to.

With the reference to artistic presentation (creative expression), Vibhava can be inntepreted as, ‘Developing the knowledge or understanding of a specific emotion (mental state) that the creator (Poet/Author) intends to convey through the means and modes of acting.

The Vibhavas are of two types one is ‘Aalambana Vibhava’ and the other is ‘Uddipana Vibhava’. In broader sense, they are the internal and external causes of something. ‘Alambana vibhava’ is source of a particular emotion that determines its nature and ‘Uddipana vibhava’ is the one, which enhances the emotion caused by a stimulant. It has no direct bearing or connection with the cause or consequence and it is not a part of the process but indirectly plays the role of enhancer of a particular emotion borne out of a stimulant. This can be best explained by many literary presentations such as works of Kalidasa or other renowned authors.

व्यभिचारिभावाः

Vyabhichari or Sanchari Bhava. They act as transitory feelings and sentiments, which can have many sources. These come to stay for a while, do their job and go. Thirty three such Vyabhichari or Sanchari Bhavas are mentioned in the Natya Sastra.

This is also known as sanchari bhava. The term means improvisation or explanation. These are transitory emotional feelings that differ from person to person. They will not have a constant nature.

अथ व्यभिचारिभावाः

Vyabhicari [Sancari] Bhavas – They are thirty three in number viz.

निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः।
आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः॥१८॥
व्रीडा चपलता हर्ष आवेगो जडता तथा।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च॥१९॥
सुप्तं विबोधोऽमर्षश्चापि अवहित्थं अथोग्रता।
मतिर्व्याधिस्तथा उन्मादस्तथा मरणमेव च॥२०॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः।
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः॥२१॥

1. निर्वेद - Despondency 1. Glani (Weakness) 1. Sanka (Suspicious) 1. Asuya (envy) 1. Mada (Inebriation) 1. Srama (exhaustion) 1. Alasya (lethargy) 1. Dainya (Depression) 1. Cinta (anxiety) 1. Moha (delusion) 1. Smrti (recollection) 1. Dhrti (fortitude) 1. Vrida (Bashfulness) 1. Capalata (in constancy) 1. Harsa (joy) 1. Avega (excitement) 1. Jadata (Stupefaction) 1. Garva (Arrogance) 1. Visada (Despair) 1. Autsukya (impatient curiosity) 1. Nidra (sleep) 1. Apasmara (Loss of memory) 1. Svapna (Dreaming) 1. Prabodha (Wakening) 1. Amarsa (indignation) 1. Avahittha (Dissimulation) 1. Ugrata (Cruelty) 1. Mati (self assurance) 1. Vyadhi (Sickness) 1. Unmada (madness) 1. Marana (death) 1. Trasa (fright) 1. Virarka (deliberation)

Source: The Natya Sastra, of BHARATAMUNI by BOS, Chapter 6 sloka 18-21 page no. 72)

अनुभाव

‘Anu’ is a Sanskrit word and in this context, it means “in reaction to”! Here in this case since it is the natural reaction of body to ‘Vibhava’ it is termed as ‘Anubhava’. Apparently, there is a very thin line of demarcation between the two; yet they cannot be termed as the same because Vibhava is the cause and Anubhava is its Consequence. Vibhava is definitive whereas Anubhava is not definitive. The simple reason for this is: it is not possible to link Anubhava with a specific emotion (mental state). For example, physical reaction like ‘strenuous expression on the face’ is a sure physical reaction which is a manifestation of a definite ‘cause’ or 1/8 Vibhava. Therefore, the physical reaction of strenouous expression

on the face will be the ‘Anubhava’. Nevertheless, since such a reaction could be the result of either a body ache or mental stress or for being thrown in to an awkward condition. As mentioned earlier, the vibhava is definitive because it is the internal state, which triggers the anubhava, which is the external manifestation.

The further explanation of the terms and related examples are given in the sixth and the seventh chapter of The Natya Sastra By Bharat Muni. To begin with, the analysis of the chapter six and following by chapter seven, which is as per the slokas. And the terms of Bhavas and Rasa which are also discussed in the chapter seven of the same will be taken in the chronology. (Ref: Rasa Theory By Shree. G K Bhatt M S University of Baroda)

Subsections of छन्दोप्रकरणम्

परिचयः

मन्त्राः छन्दोबद्धाः भवन्ति। केवलं यजुर्वेदं परित्यज्य संहितात्रयं छन्दोमयं भवति। अतः छन्दसां ज्ञानं विना वेदमन्त्राः साधु उच्चारयितुं न शक्यन्ते । अतः षट्सु वेदाङ्गेषु छन्दसः अन्तर्भावः भवति। वेदपुरुषस्य पादत्वेन छन्दसः कल्पना क्रियते । तथाहि प्रोक्तम् - “छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते” इति। शौनकविरचिते ऋक्प्रातिशाख्ये अन्तिमभागे छन्दसां पर्याप्तं विवेचनं विद्यते। अस्य छन्दःशास्त्रस्य पिङ्गलच्छन्दःसूत्रनामा ग्रन्थः प्रथितः विद्यते। केनचित् पिङ्गलाचार्येण ग्रन्थः अयं विरचितः। अत्र वैदिकानि लौकिकानि च छन्दांसि विवेचितानि सन्ति। छन्दःशास्त्रम् अत्यन्तं प्राचीनम्। यास्काचार्यविरचिते निरुक्तग्रन्थे ब्राह्मणग्रन्थे च छन्दःशब्दस्य बहुधा निर्वचनं प्रदर्शितम्। ऐतरेयारण्यके आम्नातम् “मानवान् पापकर्मभ्यः छादयन्ति छन्दांसि इति छन्दः” इति। तैत्तिरीयसंहितायाम् आम्नातम्- “देवा छन्दोभिरात्मानं छादयित्वा उपायन् प्रजापतिरग्निं चिनुत” इति। व्याकरणाचार्यस्य महर्षेः पाणिनेः मते तु छन्द्-धातोः छन्दःशब्दस्य व्युत्पत्तिः । प्रकृतपाठे अस्मिन् किञ्चित् छन्दोसम्बन्धिचर्चा प्रस्तूयते ।

छन्दसः लक्षणम्

छादयति आच्छादयति वा इति छन्दः । वैयाकरणपाणिनेः मते तु अभिप्रायार्थबोधकात् आनन्दपर्यायभुक्तार्थात् वा छदि-धातोः छन्दःशब्दस्य उत्पत्तिः जाता। यत् पापम् आच्छादयति, तत् छन्दः। अथवा यत् पापात् यजमानस्य पुरोहितस्य च आच्छादनं करोति, तत् छन्दः । तैत्तिरीयसंहितायां छन्दसः उत्पत्तिविषये एका आख्यायिका समुपलभ्यते । प्रजापतिः अग्निं चितवान्। स च अग्निः भयङ्करं रूपं धृतवान्। तम् अग्निं निधाय प्रजापतिः देवगणस्य सकाशे गतवान्। तत् भयङ्करं रूपं च वीक्ष्य देवाः अग्नेः सकाशं गन्तुं साहसं न कृतवन्तः । तदा देवाः छन्दसा शरीरम् आच्छाद्य अग्नेः सकाशं गत्वा अक्षततया पुनरागतवन्तः। छन्दसा शरीरम् आच्छादितवन्तः। अतः छन्दः इति नाम्ना सुप्रसिद्धम् अस्ति। ऐतरेयारण्यके कथयति "मानवान् पापकर्मभ्यः छादयन्ति छन्दांसि इति छन्दः" इति। तैत्तिरीयसंहितायां प्रोक्तम्- "देवा छन्दोभिरात्मानं छादयित्वा उपायन् प्रजापतिरग्निं चिनुत" इति।

छन्दसः प्रकाराः

छन्दः वस्तुतस्तु लौकिकवैदिकभेदेन द्विविधं भवति । लौकिकच्छन्दस्तु पिङ्गलादीनाम् आचार्याणां मते मात्रावर्णविभेदेन द्विविधम् । तथाहि वृत्तरत्नाकरे प्रोक्तम्-

“पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥” इति

अर्थात् पिङ्गलाचार्यः छन्दः द्विविधम् अस्ति इति प्रोक्तवान् । ते च वैदिकम्, लौकिकञ्च इति । तत्रापि लौकिकं छन्दः मात्राभेदेन वर्णभेदेन पुनः द्विधा अस्ति।

पद्यस्य लक्षणम्

छन्दोमञ्जरीग्रन्थे पद्यलक्षणम् उक्तवान् - ‘पद्यं चतुष्पदी’ इति । चतुर्णां पादानां समाहारः चतुष्पदी इति। अत्र समाहारे ईप्रत्ययः। अर्थात् चतुष्पादात्मकं पद्यं भवति इति।

तेन छन्दःशास्त्र-पारिभाषिक-पाद-चतुष्टय-समाहारात्मक-वाङ्मयत्वं पद्यत्वमिति गङ्गादासस्य आशयः। इदञ्च पद्यं द्विविधं भवति । यथा - १) वृत्तपद्यम्, २) जातिपद्यम्।

तत्र अक्षरगणघटितं पद्यं वृत्तं, मात्रिकगणघटितं पद्यञ्च जातिः इत्युच्यते। वृत्तपद्यस्य उदाहरणानि भवन्ति वसन्ततिलकादयः। जातिच्छन्दस्य उदाहरणानि भवन्ति आर्यादयः इति तदुक्तं हि छन्दोमञ्जुर्याम्- “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ " इति ।

अर्थात् छन्दोबद्धं पद्यं भवति इति तु सामान्यलक्षणम्। छन्दोमञ्जुर्यां प्रोच्यते यत् पादचतुष्टयात्मकं पद्यं भवति इति। तच्च पद्यम् द्विविधं भवति। यथा वृत्तपद्यम्, जातिपद्यम् इति। अक्षराणां निर्दिष्टसंख्यया नियमितं निबद्धं च पद्यं वृत्तपद्यम् । अक्षरसंख्यातम् अक्षरैः एकद्वयादिवर्णैः संख्यातं परिगणितं यत् तत् वृत्तं नाम भवेत्।

स्रग्धरा

लक्षणम्

म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्। – केदारभट्टकृत- वृत्तरत्नाकर:३.१०२

यच्छन्दः म्रभ्नैर्युतम्, यानां त्रयेण युतं, मुनिषु यतियुतं भवति तदेव स्रग्धराछन्दः इत्युच्यते ।

अर्थात् यत्र प्रत्येकम् अपि पादे क्रमेण एकः मगणः¸ एकः रगणः, एकः भगणः,

एकः नगणः, यगणत्रयं भवेत् अपि च सप्तसु अक्षरेषु यतिः भवेत् तदा स्रग्धरा ज्ञेयम् ।

अस्मिन् वृत्ते एकविंशत्यक्षराणि भवन्ति ।

ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।ऽऽ ।ऽऽ

म र भ न य य य ।

यति: सप्तभि: सप्तभि: सप्तभि:च।

उदाहरणम्

आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं माम्
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुम्
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो

शिवापराधक्षमापन स्तोत्रम्

द्रुतविलम्बितम्

लक्षणम्

प्रतिचरणम् अक्षरसङ्ख्या १२

द्रुतविलम्बितमाह नभौ भरौ। केदारभट्टकृत- वृत्तरत्नाकर:३. ५०

।।। ऽ।। ऽ।। ऽ।ऽ

न भ भ र ।

यति: पादान्ते।

उदाहरणम् -

विकलधर्ममधर्ममथोत्थितं, समवलोक्य सृजाम्यहमर्जुन।
स्वयमसाधुवधाय युगे युगे, सदवनाय च धर्मविवृद्धये॥

इन्द्रवज्रा

लक्षणम्

स्यादिन्द्रवज्रा यदि तौ जगौ गः।

यस्मिन् छन्दसि क्रमेण यदि तगणद्वयम्, एकः जगणः,तथा च गुरुद्वयं भवति तर्हि इन्द्रवज्रा भवति। अस्मिन् छन्दसि एकादशाक्षराणि भवन्ति।

उदाहरणम् १

पुत्रीति जाता महतीह चिन्ता, कस्मै प्रदेयेति महान् वितर्कः।
दत्ता सुखं प्राप्स्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम्।।

उदाहरणम् २ == ग्लानो हि धर्मोभ्युदितो ह्यधर्म आत्मानमस्मिन्हि सृजामि पार्थ। सद्रक्षणायासुरनाशनाय धर्मं पुन: स्थापयितुं युगेषु॥

रथोद्धता

लक्षणम्

प्रतिचरणम् अक्षरसङ्ख्या ११

रान्नराविह रथोद्धता लगौ। –केदारभट्टकृत वृत्तरत्नाकर:३.३९

ऽ।ऽ ।।। ऽ।ऽ ।ऽ

र न र ल ग।

यति: पादान्ते।

रात्परैर्नरलगै रथोद्धता ।

यत्र प्रत्येकम् अपि पादे क्रमेण एकः रगणः, एकः नगणः, एकः रगणः, एकः लघु एकः गुरुश्च भवति तद्वृत्तं रथोद्धता इति कथ्यते।

उदाहरणम्

राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदैः रथोद्धता।
यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात्।।

शार्दूलविक्रीडितम्

लक्षणम्

“सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्”

सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्

ऽ ऽ ऽ, ।। ऽ, । ऽ ।, ।।ऽ, ऽ ऽ ।, ऽ ऽ । ऽ

यतिविषयेऽपि लक्षणे एव पश्यामः। सूर्ये अर्थात् द्वादशाक्षरेषु यतिः, पुनश्च अश्वे अर्थात् सप्तमेषु यतिः करणीया।

उदाहरणम्

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्धभौ।

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।

यथा-

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

[मगणः, सगणः, जगणः, सगणः, तगणः तगणः]

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्धभौ।

ऽ ऽ ऽ । । ऽ ।ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

एवम् एव सर्वत्र स्वयं कल्पनीयम्। यतिविषयेऽपि पूर्वोक्तक्रमः स्मरणीयः।

अर्थः

पावकः[अग्निः] जलेन, घर्मः छत्रेण, मदयुक्तो हस्ती तीक्ष्णाङ्कुशेन, गोरासभौ दण्डेन, व्याधिः भेषजचिकित्सया, विषं च

विविधमन्त्रप्रयोगैः शाम्यति । इत्थं लोके सर्वस्य अपि शास्त्रविहितं औषधम् अस्त्येव परन्तु मूर्खजनस्य लोके प्रतीकारः एव न दृश्यते।

लक्षणसमन्वयप्रकारस्तु पूर्वोक्तः एव।

अनुष्टुप्छन्दः

लक्षणम्

प्रतिचरणम् अक्षरसङ्ख्या ०८

पञ्चमं लघु सर्वत्र
सप्तमं द्विचतुर्थयोः।
गुरुषष्टञ्च पादानां
चतुर्णां स्यादनुष्टुभि॥

यत्र चतुर्षु अपि पादेषु पञ्चमाक्षरं लघु षष्टाक्षरं गुरु भवति, अपि च द्वितीय-तुरीयपादयोः सप्तमाक्षरं लघु भवति तत्र अनुष्टुभ् इति कथ्यते। अत्र प्रतिपादे अन्तिमाक्षरं गुरु भवति।

उदाहरणम्

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः।।

वसन्ततिलका

लक्षणम्

उक्ता वसन्ततिलका तभजा जगौ गः

यस्मिन् वृत्ते चतुर्दशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे यदि क्रमेण एकः तगणः¸

एकः भगणः द्वौ जगणौ गुरुद्वयञ्च भवति तर्हि तदेव वृत्तं वसन्ततिलकावृत्तम् इति कथ्यते।

उदाहरणम्

पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः।।

शिखरिणी

लक्षणम्

रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी

।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।। । ऽ
य म न स भ ल ग।

यति: षड्भि: एकादशभि:च।

अस्मिन् छन्दसि सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः यगणः¸

एकः मगणः, एकः नगणः, एकः सगणः एकः भगणः एकः लघुः एकः गुरुश्च भवति तदेव शिखरिणीति वृत्तं कथ्यते ।

यतिस्तु षष्ठे एकादशे च भविष्यति ।

उदाहरणम्

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः।
यदा किञ्चित् किञ्चित् बुधजनसकाशाद् अवगतम्
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।।

Reference:

Subsections of अलङ्कारप्रकरणम्

परिचयः