परिचयः

मन्त्राः छन्दोबद्धाः भवन्ति। केवलं यजुर्वेदं परित्यज्य संहितात्रयं छन्दोमयं भवति। अतः छन्दसां ज्ञानं विना वेदमन्त्राः साधु उच्चारयितुं न शक्यन्ते । अतः षट्सु वेदाङ्गेषु छन्दसः अन्तर्भावः भवति। वेदपुरुषस्य पादत्वेन छन्दसः कल्पना क्रियते । तथाहि प्रोक्तम् - “छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते” इति। शौनकविरचिते ऋक्प्रातिशाख्ये अन्तिमभागे छन्दसां पर्याप्तं विवेचनं विद्यते। अस्य छन्दःशास्त्रस्य पिङ्गलच्छन्दःसूत्रनामा ग्रन्थः प्रथितः विद्यते। केनचित् पिङ्गलाचार्येण ग्रन्थः अयं विरचितः। अत्र वैदिकानि लौकिकानि च छन्दांसि विवेचितानि सन्ति। छन्दःशास्त्रम् अत्यन्तं प्राचीनम्। यास्काचार्यविरचिते निरुक्तग्रन्थे ब्राह्मणग्रन्थे च छन्दःशब्दस्य बहुधा निर्वचनं प्रदर्शितम्। ऐतरेयारण्यके आम्नातम् “मानवान् पापकर्मभ्यः छादयन्ति छन्दांसि इति छन्दः” इति। तैत्तिरीयसंहितायाम् आम्नातम्- “देवा छन्दोभिरात्मानं छादयित्वा उपायन् प्रजापतिरग्निं चिनुत” इति। व्याकरणाचार्यस्य महर्षेः पाणिनेः मते तु छन्द्-धातोः छन्दःशब्दस्य व्युत्पत्तिः । प्रकृतपाठे अस्मिन् किञ्चित् छन्दोसम्बन्धिचर्चा प्रस्तूयते ।

छन्दसः लक्षणम्

छादयति आच्छादयति वा इति छन्दः । वैयाकरणपाणिनेः मते तु अभिप्रायार्थबोधकात् आनन्दपर्यायभुक्तार्थात् वा छदि-धातोः छन्दःशब्दस्य उत्पत्तिः जाता। यत् पापम् आच्छादयति, तत् छन्दः। अथवा यत् पापात् यजमानस्य पुरोहितस्य च आच्छादनं करोति, तत् छन्दः । तैत्तिरीयसंहितायां छन्दसः उत्पत्तिविषये एका आख्यायिका समुपलभ्यते । प्रजापतिः अग्निं चितवान्। स च अग्निः भयङ्करं रूपं धृतवान्। तम् अग्निं निधाय प्रजापतिः देवगणस्य सकाशे गतवान्। तत् भयङ्करं रूपं च वीक्ष्य देवाः अग्नेः सकाशं गन्तुं साहसं न कृतवन्तः । तदा देवाः छन्दसा शरीरम् आच्छाद्य अग्नेः सकाशं गत्वा अक्षततया पुनरागतवन्तः। छन्दसा शरीरम् आच्छादितवन्तः। अतः छन्दः इति नाम्ना सुप्रसिद्धम् अस्ति। ऐतरेयारण्यके कथयति "मानवान् पापकर्मभ्यः छादयन्ति छन्दांसि इति छन्दः" इति। तैत्तिरीयसंहितायां प्रोक्तम्- "देवा छन्दोभिरात्मानं छादयित्वा उपायन् प्रजापतिरग्निं चिनुत" इति।

छन्दसः प्रकाराः

छन्दः वस्तुतस्तु लौकिकवैदिकभेदेन द्विविधं भवति । लौकिकच्छन्दस्तु पिङ्गलादीनाम् आचार्याणां मते मात्रावर्णविभेदेन द्विविधम् । तथाहि वृत्तरत्नाकरे प्रोक्तम्-

“पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥” इति

अर्थात् पिङ्गलाचार्यः छन्दः द्विविधम् अस्ति इति प्रोक्तवान् । ते च वैदिकम्, लौकिकञ्च इति । तत्रापि लौकिकं छन्दः मात्राभेदेन वर्णभेदेन पुनः द्विधा अस्ति।

पद्यस्य लक्षणम्

छन्दोमञ्जरीग्रन्थे पद्यलक्षणम् उक्तवान् - ‘पद्यं चतुष्पदी’ इति । चतुर्णां पादानां समाहारः चतुष्पदी इति। अत्र समाहारे ईप्रत्ययः। अर्थात् चतुष्पादात्मकं पद्यं भवति इति।

तेन छन्दःशास्त्र-पारिभाषिक-पाद-चतुष्टय-समाहारात्मक-वाङ्मयत्वं पद्यत्वमिति गङ्गादासस्य आशयः। इदञ्च पद्यं द्विविधं भवति । यथा - १) वृत्तपद्यम्, २) जातिपद्यम्।

तत्र अक्षरगणघटितं पद्यं वृत्तं, मात्रिकगणघटितं पद्यञ्च जातिः इत्युच्यते। वृत्तपद्यस्य उदाहरणानि भवन्ति वसन्ततिलकादयः। जातिच्छन्दस्य उदाहरणानि भवन्ति आर्यादयः इति तदुक्तं हि छन्दोमञ्जुर्याम्- “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ " इति ।

अर्थात् छन्दोबद्धं पद्यं भवति इति तु सामान्यलक्षणम्। छन्दोमञ्जुर्यां प्रोच्यते यत् पादचतुष्टयात्मकं पद्यं भवति इति। तच्च पद्यम् द्विविधं भवति। यथा वृत्तपद्यम्, जातिपद्यम् इति। अक्षराणां निर्दिष्टसंख्यया नियमितं निबद्धं च पद्यं वृत्तपद्यम् । अक्षरसंख्यातम् अक्षरैः एकद्वयादिवर्णैः संख्यातं परिगणितं यत् तत् वृत्तं नाम भवेत्।