Subsections of छन्दोप्रकरणम्

परिचयः

मन्त्राः छन्दोबद्धाः भवन्ति। केवलं यजुर्वेदं परित्यज्य संहितात्रयं छन्दोमयं भवति। अतः छन्दसां ज्ञानं विना वेदमन्त्राः साधु उच्चारयितुं न शक्यन्ते । अतः षट्सु वेदाङ्गेषु छन्दसः अन्तर्भावः भवति। वेदपुरुषस्य पादत्वेन छन्दसः कल्पना क्रियते । तथाहि प्रोक्तम् - “छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते” इति। शौनकविरचिते ऋक्प्रातिशाख्ये अन्तिमभागे छन्दसां पर्याप्तं विवेचनं विद्यते। अस्य छन्दःशास्त्रस्य पिङ्गलच्छन्दःसूत्रनामा ग्रन्थः प्रथितः विद्यते। केनचित् पिङ्गलाचार्येण ग्रन्थः अयं विरचितः। अत्र वैदिकानि लौकिकानि च छन्दांसि विवेचितानि सन्ति। छन्दःशास्त्रम् अत्यन्तं प्राचीनम्। यास्काचार्यविरचिते निरुक्तग्रन्थे ब्राह्मणग्रन्थे च छन्दःशब्दस्य बहुधा निर्वचनं प्रदर्शितम्। ऐतरेयारण्यके आम्नातम् “मानवान् पापकर्मभ्यः छादयन्ति छन्दांसि इति छन्दः” इति। तैत्तिरीयसंहितायाम् आम्नातम्- “देवा छन्दोभिरात्मानं छादयित्वा उपायन् प्रजापतिरग्निं चिनुत” इति। व्याकरणाचार्यस्य महर्षेः पाणिनेः मते तु छन्द्-धातोः छन्दःशब्दस्य व्युत्पत्तिः । प्रकृतपाठे अस्मिन् किञ्चित् छन्दोसम्बन्धिचर्चा प्रस्तूयते ।

छन्दसः लक्षणम्

छादयति आच्छादयति वा इति छन्दः । वैयाकरणपाणिनेः मते तु अभिप्रायार्थबोधकात् आनन्दपर्यायभुक्तार्थात् वा छदि-धातोः छन्दःशब्दस्य उत्पत्तिः जाता। यत् पापम् आच्छादयति, तत् छन्दः। अथवा यत् पापात् यजमानस्य पुरोहितस्य च आच्छादनं करोति, तत् छन्दः । तैत्तिरीयसंहितायां छन्दसः उत्पत्तिविषये एका आख्यायिका समुपलभ्यते । प्रजापतिः अग्निं चितवान्। स च अग्निः भयङ्करं रूपं धृतवान्। तम् अग्निं निधाय प्रजापतिः देवगणस्य सकाशे गतवान्। तत् भयङ्करं रूपं च वीक्ष्य देवाः अग्नेः सकाशं गन्तुं साहसं न कृतवन्तः । तदा देवाः छन्दसा शरीरम् आच्छाद्य अग्नेः सकाशं गत्वा अक्षततया पुनरागतवन्तः। छन्दसा शरीरम् आच्छादितवन्तः। अतः छन्दः इति नाम्ना सुप्रसिद्धम् अस्ति। ऐतरेयारण्यके कथयति "मानवान् पापकर्मभ्यः छादयन्ति छन्दांसि इति छन्दः" इति। तैत्तिरीयसंहितायां प्रोक्तम्- "देवा छन्दोभिरात्मानं छादयित्वा उपायन् प्रजापतिरग्निं चिनुत" इति।

छन्दसः प्रकाराः

छन्दः वस्तुतस्तु लौकिकवैदिकभेदेन द्विविधं भवति । लौकिकच्छन्दस्तु पिङ्गलादीनाम् आचार्याणां मते मात्रावर्णविभेदेन द्विविधम् । तथाहि वृत्तरत्नाकरे प्रोक्तम्-

“पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥” इति

अर्थात् पिङ्गलाचार्यः छन्दः द्विविधम् अस्ति इति प्रोक्तवान् । ते च वैदिकम्, लौकिकञ्च इति । तत्रापि लौकिकं छन्दः मात्राभेदेन वर्णभेदेन पुनः द्विधा अस्ति।

पद्यस्य लक्षणम्

छन्दोमञ्जरीग्रन्थे पद्यलक्षणम् उक्तवान् - ‘पद्यं चतुष्पदी’ इति । चतुर्णां पादानां समाहारः चतुष्पदी इति। अत्र समाहारे ईप्रत्ययः। अर्थात् चतुष्पादात्मकं पद्यं भवति इति।

तेन छन्दःशास्त्र-पारिभाषिक-पाद-चतुष्टय-समाहारात्मक-वाङ्मयत्वं पद्यत्वमिति गङ्गादासस्य आशयः। इदञ्च पद्यं द्विविधं भवति । यथा - १) वृत्तपद्यम्, २) जातिपद्यम्।

तत्र अक्षरगणघटितं पद्यं वृत्तं, मात्रिकगणघटितं पद्यञ्च जातिः इत्युच्यते। वृत्तपद्यस्य उदाहरणानि भवन्ति वसन्ततिलकादयः। जातिच्छन्दस्य उदाहरणानि भवन्ति आर्यादयः इति तदुक्तं हि छन्दोमञ्जुर्याम्- “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ " इति ।

अर्थात् छन्दोबद्धं पद्यं भवति इति तु सामान्यलक्षणम्। छन्दोमञ्जुर्यां प्रोच्यते यत् पादचतुष्टयात्मकं पद्यं भवति इति। तच्च पद्यम् द्विविधं भवति। यथा वृत्तपद्यम्, जातिपद्यम् इति। अक्षराणां निर्दिष्टसंख्यया नियमितं निबद्धं च पद्यं वृत्तपद्यम् । अक्षरसंख्यातम् अक्षरैः एकद्वयादिवर्णैः संख्यातं परिगणितं यत् तत् वृत्तं नाम भवेत्।

स्रग्धरा

लक्षणम्

म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्। – केदारभट्टकृत- वृत्तरत्नाकर:३.१०२

यच्छन्दः म्रभ्नैर्युतम्, यानां त्रयेण युतं, मुनिषु यतियुतं भवति तदेव स्रग्धराछन्दः इत्युच्यते ।

अर्थात् यत्र प्रत्येकम् अपि पादे क्रमेण एकः मगणः¸ एकः रगणः, एकः भगणः,

एकः नगणः, यगणत्रयं भवेत् अपि च सप्तसु अक्षरेषु यतिः भवेत् तदा स्रग्धरा ज्ञेयम् ।

अस्मिन् वृत्ते एकविंशत्यक्षराणि भवन्ति ।

ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।ऽऽ ।ऽऽ

म र भ न य य य ।

यति: सप्तभि: सप्तभि: सप्तभि:च।

उदाहरणम्

आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं माम्
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुम्
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो

शिवापराधक्षमापन स्तोत्रम्

द्रुतविलम्बितम्

लक्षणम्

प्रतिचरणम् अक्षरसङ्ख्या १२

द्रुतविलम्बितमाह नभौ भरौ। केदारभट्टकृत- वृत्तरत्नाकर:३. ५०

।।। ऽ।। ऽ।। ऽ।ऽ

न भ भ र ।

यति: पादान्ते।

उदाहरणम् -

विकलधर्ममधर्ममथोत्थितं, समवलोक्य सृजाम्यहमर्जुन।
स्वयमसाधुवधाय युगे युगे, सदवनाय च धर्मविवृद्धये॥

इन्द्रवज्रा

लक्षणम्

स्यादिन्द्रवज्रा यदि तौ जगौ गः।

यस्मिन् छन्दसि क्रमेण यदि तगणद्वयम्, एकः जगणः,तथा च गुरुद्वयं भवति तर्हि इन्द्रवज्रा भवति। अस्मिन् छन्दसि एकादशाक्षराणि भवन्ति।

उदाहरणम् १

पुत्रीति जाता महतीह चिन्ता, कस्मै प्रदेयेति महान् वितर्कः।
दत्ता सुखं प्राप्स्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम्।।

उदाहरणम् २ == ग्लानो हि धर्मोभ्युदितो ह्यधर्म आत्मानमस्मिन्हि सृजामि पार्थ। सद्रक्षणायासुरनाशनाय धर्मं पुन: स्थापयितुं युगेषु॥

रथोद्धता

लक्षणम्

प्रतिचरणम् अक्षरसङ्ख्या ११

रान्नराविह रथोद्धता लगौ। –केदारभट्टकृत वृत्तरत्नाकर:३.३९

ऽ।ऽ ।।। ऽ।ऽ ।ऽ

र न र ल ग।

यति: पादान्ते।

रात्परैर्नरलगै रथोद्धता ।

यत्र प्रत्येकम् अपि पादे क्रमेण एकः रगणः, एकः नगणः, एकः रगणः, एकः लघु एकः गुरुश्च भवति तद्वृत्तं रथोद्धता इति कथ्यते।

उदाहरणम्

राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदैः रथोद्धता।
यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात्।।

शार्दूलविक्रीडितम्

लक्षणम्

“सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्”

सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्

ऽ ऽ ऽ, ।। ऽ, । ऽ ।, ।।ऽ, ऽ ऽ ।, ऽ ऽ । ऽ

यतिविषयेऽपि लक्षणे एव पश्यामः। सूर्ये अर्थात् द्वादशाक्षरेषु यतिः, पुनश्च अश्वे अर्थात् सप्तमेषु यतिः करणीया।

उदाहरणम्

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्धभौ।

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।

यथा-

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

[मगणः, सगणः, जगणः, सगणः, तगणः तगणः]

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्धभौ।

ऽ ऽ ऽ । । ऽ ।ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

एवम् एव सर्वत्र स्वयं कल्पनीयम्। यतिविषयेऽपि पूर्वोक्तक्रमः स्मरणीयः।

अर्थः

पावकः[अग्निः] जलेन, घर्मः छत्रेण, मदयुक्तो हस्ती तीक्ष्णाङ्कुशेन, गोरासभौ दण्डेन, व्याधिः भेषजचिकित्सया, विषं च

विविधमन्त्रप्रयोगैः शाम्यति । इत्थं लोके सर्वस्य अपि शास्त्रविहितं औषधम् अस्त्येव परन्तु मूर्खजनस्य लोके प्रतीकारः एव न दृश्यते।

लक्षणसमन्वयप्रकारस्तु पूर्वोक्तः एव।

अनुष्टुप्छन्दः

लक्षणम्

प्रतिचरणम् अक्षरसङ्ख्या ०८

पञ्चमं लघु सर्वत्र
सप्तमं द्विचतुर्थयोः।
गुरुषष्टञ्च पादानां
चतुर्णां स्यादनुष्टुभि॥

यत्र चतुर्षु अपि पादेषु पञ्चमाक्षरं लघु षष्टाक्षरं गुरु भवति, अपि च द्वितीय-तुरीयपादयोः सप्तमाक्षरं लघु भवति तत्र अनुष्टुभ् इति कथ्यते। अत्र प्रतिपादे अन्तिमाक्षरं गुरु भवति।

उदाहरणम्

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः।।

वसन्ततिलका

लक्षणम्

उक्ता वसन्ततिलका तभजा जगौ गः

यस्मिन् वृत्ते चतुर्दशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे यदि क्रमेण एकः तगणः¸

एकः भगणः द्वौ जगणौ गुरुद्वयञ्च भवति तर्हि तदेव वृत्तं वसन्ततिलकावृत्तम् इति कथ्यते।

उदाहरणम्

पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः।।

शिखरिणी

लक्षणम्

रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी

।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।। । ऽ
य म न स भ ल ग।

यति: षड्भि: एकादशभि:च।

अस्मिन् छन्दसि सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः यगणः¸

एकः मगणः, एकः नगणः, एकः सगणः एकः भगणः एकः लघुः एकः गुरुश्च भवति तदेव शिखरिणीति वृत्तं कथ्यते ।

यतिस्तु षष्ठे एकादशे च भविष्यति ।

उदाहरणम्

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः।
यदा किञ्चित् किञ्चित् बुधजनसकाशाद् अवगतम्
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।।

Reference: