Chapter 20

हनुमन्नाटकम्

Subsections of हनुमन्नाटकम्

Subsections of परिचयः

उपोद्घातः

साहित्ये हनुमन्नाटकस्य वैशिष्ठ्यम्

हनुमन्नाटकम् एकं विशिष्टं नाटकम् । अस्मिन् ग्रन्थे 14 अङ्काः 579 श्लोकाः सन्ति । अस्यैव ग्रन्थस्य “महानाटकम्” इति पाठान्तरं लभ्यते । महानाटके 9 अङ्काः 791 श्लोकाः सन्ति । उभयोरपि प्रायशः 300 समान श्लोकाः विद्यन्ते । अनर्घराहवं , प्रसन्नराघवं , शाकुंतलं, महावीरचरितं , वाल्मीकिरामायणं , भोजप्रप्रबन्धः ध्वन्यालोकेत्यादि ग्रन्थेषु हनुमन्नाटकात् बहवः श्लोकाः उदाहृताः तत्र तत्र दृश्यन्ते ।

ग्रन्थस्य स्थूलस्वरूपम्

  1. जानकीस्वयंवरम्
  2. रामजानकीविलासम्
  3. मारीचागमनम्
  4. सीतापहरणम्
  5. श्रीराम-वियोग-विलापम्
  6. हनुमतः लङ्कायात्रा
  7. रामसॆतुबन्धनम्
  8. रावण-अङ्गद संवादः
  9. मंडॊदरी हितबोधः
  10. रावणप्रपंचम्
  11. कुंभकर्णवध
  12. मेघनाथवध
  13. लक्ष्मणमूर्छा
  14. श्रीरामविजयम्

अवाल्मीकीय अंशाः

  • रावणपुरोहित-जनक संवादः
  • वालि-श्रीराम सम्भाषणम्
  • रावण-मण्डोदरी संवादः
  • अङ्गदरायबारः

ग्रन्थस्य ऐतिहास्यम्

हनुमन्नाटकमिदम् रसालंकारपरिपृष्टम् निदग्ध वर्णनाभरितम् प्रबन्धायमानम् महानाटकमिति तत्तत् ग्रन्थप्रकाशकैः प्रस्तावनासु परामृष्टम् स्वीय प्रस्तावनायाः सर्वेपि प्रकाशकाः हनुमन्नाटकस्थ चतुर्दश अंके परिदृश्यमानं

रचितमनिलपुत्रेणाथ वाल्मीकिनाब्धौ
निहितममृतबुध्या प्राङ्महानाटकं यत्
सुमतिनृपतिभोजेनोद्धृतं तत्क्रमेण
ग्रथितमवतु विश्वं मिश्रदामोदरेण | ह. ना . 14.96

इत्यादिश्लोकमुदाहरन्ति | एतावाता महर्षिः वाल्मीकिः हनुमत्प्रणेतम् एतं प्रबन्धम् दृष्ट्वा स्वकाव्यस्य निरादरणम् आशंकमानः हनूमंतं प्रार्थयामास इति

यावत् स्थास्यन्ति गिरयस्सरितश्च महीतले ।
तावद्रामायणकथा लोकेषु प्रचरिष्यति ।।1.2.36।।

इति विधातृ वचनम् समर्थयितुम् स्वीयं महानाटकप्रबन्धं समुद्रे प्राक्षिपदिति कलान्तरे भोजः तं समुद्धृत्य निजसभामहापण्डितेन दामोदरमिश्रेण प्रकाशयामास इति ज्ञायते।

भोजस्य कालः प्रायशः ११ शताब्दः । अतः दामोदरमिश्रवर्याः अपि ११ शताब्दीकः एव ।

Subsections of प्रार्थना

उपोद्घातः

नान्दी मङ्गलवचनमिति -

अष्टाभिर्दशभिर्वापि नान्दी द्वादशभिः पदैः ।
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्।|

0.1. कल्याणानां निधानं

कल्याणानां निधानं कलिमलमथनं, पावनं पावनानां,
पाथेयं यन्मुमुक्षोः सपदि परपद-प्राप्तये प्रस्थितस्य ।
विश्राम-स्थानमेकं कविवर-वचसां जीवनं सज्जनानां,
बीजं धर्म-दृमस्य प्रभवतु भवतां भूतये राम-नाम ।। १

अन्वयः

कल्याणानां निधानम् , कलिमलमथनं, पावनानां पावनम् , सपदि परपदप्राप्तये प्रस्थितस्य यन्मुमुक्षोः पाथेयम् , कविवर-वचसां एकं विश्रामस्थानम् , सज्जनानां जीवनम्, धर्मदृमस्य बीजं रामनाम भवतां भूतये प्रभवतु ।।

प्रतिपदार्थः

कल्याणानां = शुभानां , निधानं = निधिः
(कल्याणानां निधानं यस्मिन् निधीयन्ते तत् ) कल्याणानां निधानं = शुभानां निधिः
कलिमलमथनं = पापहारी , कलेः = कलियुगस्य ,मलं = पापं , मथनं = नाशनं करोति ,
पवनानां पावनं = पवित्राणां मध्ये पवित्रम् (पवित्रतमम् )
सपदि = शीघ्रम् , परपदप्राप्तये = मोक्षप्राप्तये ,
प्रस्थितस्य = प्रवृत्तस्य , मुमुक्षोः = मोक्षेच्छुकः मुनेः , पाथेयं = मार्गेषु आहारोपयोगिद्रव्यं
कविवरवचसाम् = वाल्मीकादि कविश्रेष्ठानां साहितीवैभवस्य,
एकं विश्रामस्थानम् = गम्यस्थानम् (लक्ष्यम् )
जीवनं सज्जनानाम् = सत्पुरुषाणां प्राणसदृशम्
धर्मदृमस्य = धर्म इति नाम्नि वृक्षस्य ( यः धर्मः माहावृक्षः इव सम्स्त विश्वरक्षणारूप छायां परिकल्पयति ), बीजं = हेतुः
यत् = तादृश , रामनाम = रामनाममहामन्त्रः ,
भवतां = सकलचराचर भूतानाम् , भूयते = ऐश्वर्यम् सम्पदाम् कल्पयितुम् , प्रभवतु = समर्था भवतु

तात्पर्यम्

व्याक्या

धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति
धर्मेण पापमपनुदन्ति धर्मे सर्वं प्रतिष्ठितम् तस्मादद्धर्म परमं वदन्ति ।।
—नारायणोपनिषद्

साहित्यविषयाः

छन्दः - स्रग्धरा

दीपिकाव्याक्या

तावच्छ्रीरामचन्द्रगुणचक्रवालवर्णनेच्छुः कविः स्वाभीष्टदेवतानामान्तरिताशीपूर्वां नान्दीमवतारयति - कल्याणानामित्यादिद्वादशपदैः । तदुक्तं नाटकावतारे-

‘अष्टाभिर्दशभिर्वापि नान्दी द्वादशभिः पदैः । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्।।’ इति ।

नान्दी मङ्गलवचनमिति । अत्र संक्षेपतोऽर्थोद्घाटनं क्रियते विस्तरस्य श्रद्धाविच्छेदकत्वात् । रामनाम भवतां भूतये प्रभवतु इत्यन्वयः । भूतये ऐहिकपारलौकिकैश्वर्याय मोक्षाय वा ‘भूतिरैश्वर्यमोक्षयोः’ इति चरकः । मेलकोपमालंकारः ।

उक्तं च वीरभानौ ‘विशेषणार्थनिर्भर्ता यद्यनेकार्थभाक्पदः । चाक्यवादिविहीनोऽपि मेलकः सम्मतो बुधैः ॥’ इति । तत्र विशेपणैस्तद्रूपप्रदत्वं द्योतयति । कल्याणानां निधानं निधीयन्ते यस्मिंस्तदिति विग्रहः । कलिमलमथनम्। एतेन पापहारित्वमुक्तम् | कविवरवचसां वाल्मीक्यादिवाचाम् एकं विश्रामस्थानम् । एतेन तदितरस्यासद्वर्णनत्वमुक्तम् । एतेन पत्रयेणैहिकैश्वर्यप्रदत्वमुक्तम् । पारलौकि- कर्श्वयप्रदत्वमाह-पावनानां ब्रह्मादीनामपि पावनम् । एतेन तत्तल्लोकप्रदत्वमुक्तम् । अतः पारलौकिकैश्वर्यप्रदत्वमायाति । अथ मोक्षप्रदत्वमाह - परपदप्राप्तचे परस्मिन्त्र- ह्माण पदं स्थानं तत्प्राप्तये प्रस्थितस्य मुमुक्षाः पाथेयं मार्गे साधु । ननु नाम्नैव मोक्षः कथं धर्मादीनां सत्त्वशोधकत्वेन मोक्षदत्वमिति चेत्तत्राह – धर्मद्रुमस्य वीजम् नानि कीर्तिते सर्वे धर्माः कृता भवन्ति । अथोत्पत्तिवीजे पुष्पफलादिकं सर्वमस्तीति । सज्जनानाम् ’ जीवनानाम् ’ इति वा पाठः । जीवनं प्रकृतिस्तस्यापि जीवनं चेतनकर्तृ । उक्तं च- ’ यतो जीवत्वमायाति जीवः प्रकृतितः स्वतः । ’ इति । एतैर्विशेषणैर्मोक्षप्रदत्वमुक्तम् ॥ १ ॥

0.2. यं शैवाः समुपासते

यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनः,
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं नो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः॥

अन्वयः

यं शैवाः शिवः इति , वेदान्तिनः ब्रह्मन् इति , बौद्धाः बुद्धः इति, प्रमाणपटवः नैयायिकाः कर्ता इति, जैनशासनरताः अर्हन् इति , मीमांसकाः कर्मेति समुपासते सः अयं त्रैलोक्यनाथः हरिः नः वाञ्छितफलं विदधातु ।

प्रतिपदार्थः

व्याक्या

साहित्यविषयाः

छन्दः - शार्दूलविक्रीडितम्

दीपिकाव्याक्या

अथ विद्यावानिति नेतृगुणं वक्तुं पद्यमवतारयति-यमिति ।
यं रामं शैवाः शिवभक्ताः शिवेति नाम्ना समुपासते ‘महारुद्रादभूत्प्रकृतिरतः सूत्रं ततोऽहमिति ततो विश्वम् ‘ इति श्रुतेः ।
वेदान्तिनो ब्रह्मेति ‘एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किंचन’ इति श्रुतेः ।
बौद्धा बुद्ध इति ‘प्राण्यालम्भनं संसृति नन्दयेति माम् ‘ इति श्रुतेः ।
प्रत्यक्षानुमानोपमानशब्दाभावार्थप्रतिपत्ति प्रमाणानीति प्रमाणेष्वेव निपुणा नैयायिकाः कर्तेति ‘सनातनाः पशवः प्रविशन्ति प्रमेयानुभूतैः कर्तेच ततः’ इति श्रुतेः ।
जैनाज्ञाभिरता अर्हन्निति ‘स्वभाव एवेश्वरो नान्योऽस्ति कदाप्यस्यानीहशत्वापत्तेः ‘ इति श्रुतेः ।
मीमांसकाः कर्मेति ‘कर्मणा जायते नश्यति भयाभयसुखानि’ इति श्रुतेः ।
एतैस्तदुपशिक्षितमगरेव यमुपासते सोऽयं रामो वाञ्छितफलं विदधातु । एतेन विद्यावत्त्वमुक्तम् । हरिरित्यनेन दुःखहारित्वात्परप्रेमगुणो दर्शितः । त्रैलोक्यवासिजनैस्तत्तद्देवताभजनेन तत्तत्फलं प्रतिनाथ्यते याच्यते इत्यनेन दातृत्वमुक्तम् ॥ ३ ॥ ४॥

0.3. अन्य प्रार्थनाश्लोकाः

महानाटकात् –

बालक्रीडनमिंदुशेखरधनुर्भगावधि प्रह्वता ,
ताते काननसेवनावधि , दया सुग्रीव-सख्यावधि ।
आज्ञा वारिधिबंधनावधि यशो लङ्केशनाशावधि ,
श्रीरामस्य पुनातु लोकवशता जानक्युपेक्षावधि ॥ ३

नमामि देवं सुरकल्पवृक्षं, धनुर्धरं नीरदनीलगात्रम् ।
गुणाभिरामं कमलाननं तं, यदास्पदं न क्षणमुज्झति श्रीः ॥ ४ ॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ५ ॥

मनोऽभिरामं नयनाभिरामं, वचोऽभिरामं श्रवणाभिरामम् ।
सदाभिरामं संतताभिरामं, वन्दे सदा दाशरथिञ्च रामम् ॥ ६ ॥

योरामचन्द्र भुवि विस्त्रुत कीर्त्तिचन्द्र ।
स्स्मेरास्यचन्द्र रजनोचरपद्मचन्द्र । ।
आनन्दचन्द्र । रघुवंश समुद्रचन्द्र !
सीतामन: कुमुदचन्द्र । नमो नमस्ते ॥ ७ ॥

Chapter 10

प्रथमोऽङ्कः

प्रथमोऽङ्कः - जानकीस्वयंवराङ्कः

Subsections of प्रथमोऽङ्कः

परिचयः

  • रामावतरणम्
  • विश्वामित्रागमनम्
  • ताटकवधः
  • यज्ञसंरक्षणम्
  • अहल्याशापविमोचनम्
  • जानकीस्वयंवरम्

1.9. कमठपृष्ठकठोरमिदं

तदा सीता ( आत्मगतम् )

कमठपृष्ठकठोरमिदं धनुः मधुरमूर्तिरसौ रघुनन्दनः
कथमधिज्यमनेन विधीताम् अहह तात पणस्तवदारुणः ।

साहित्यविषयाः

छन्दः - द्रुतविलम्बितम्

दीपिकाव्याक्या

तत्र रामं दृष्ट्वा सीता विचिकित्सति - कमठेति । इदं धनुः कमठपृष्ठवत् कठोरम् । रघुनन्दनो रामो मधुरमूर्तिः सुकुमाराङ्गः । अहहेति खेदे । अनेन रामेणेंद् धनुरधिज्यमधिकृतगुणं कथं विधीयताम् । अतस्तातस्य पितुः पणः ‘कोऽपि धनुरधिज्यं करिष्यति तस्मै सीतां दास्यामि’ इत्येवरूपा प्रतिज्ञा स्तवाय स्तुत्यै दारुणोऽयोग्यः अस्तुत्य इति । यद्वा अविसर्गपाठे हे तात, तव पणो दारुण इति मानसोक्तिः । तातपणश्चेन्ना भविष्यत्तहं राममन्त्रिप्यामीति भावः । ‘स्तवः स्तोत्रंस्तुतिर्नुति:’ इत्यमरः ॥ ९ ॥

1.12. दातव्योयमवश्यमेव

रावणपुरोहितो जनकं प्रति –

दातव्योयमवश्यमेव दुहिता कस्मैचिदेनामसौ ,
दोः - क्रीडा - मषकीकृत - त्रिभुवनो लङ्कापतिर्याचते ।
तत्किं मूढवदीक्षसे ननु कथा-गोष्टीषु नः शासते ,
तद् -वृत्तानि परोरजांसि मुनयः प्राच्या मरीच्यादयः

साहित्यविषयाः

छन्दः - शार्दूलविक्रीडितम्

दीपिकाव्याक्या

रावणपुरोहितो जनकमनुवदति - दातव्येति । भो जनक, इयं सर्वोत्तमा दुहिता कस्मैचिदयाचतेऽपि वराय दातव्यैव । असौ प्रसिद्धः कुलाचारः । एतेन कौलीन्यमुक्तम्। लङ्कापतिः। अनेनैश्वर्यमुक्तम्। दोः क्रीडामशकी- कृतत्रिभुवनः । एतेन कल्पत्वमुक्तम् । भुजक्रांडानिर्जितत्रिभुवनः । यद्वा भुजक्रीडया मशकीकृतं निश्चेतनीकृतं त्रिभुवनं येन । ‘दंशाचेतनयोमेशा’ इति विश्वः । मश एव मशकः । एवं भूतो रावणः एनां स्वयमेव याचते तत्तस्मादज्ञातार्थवदीक्षसे विचारयसि । ननु वितर्के ।

प्राग्भवाः प्राच्या मरीच्यादयो मुनयस्तद्वृत्तानि रावणचारतानि कथागोष्ठीषु नोऽस्माशासते कथयन्ति । किंभूतानि । परोरजांसि शुद्धानि । यद्वा रजोभ्यो भूरेणुभ्यः पराण्यधिकानि परोरजांसि । परसूशब्दं निपातनं मन्यते भोजराजः । इत्यादिविशिष्टगुणोऽयं याचते तस्मादस्मै दातव्येति भावः ।

1.16. माहेश्वरो दशग्रीवः

जनकः सीतां प्रति सखेदम् —

माहेश्वरो दशग्रीवः क्षुद्राश्चान्ये महीभुजः ।
पिनाकारोपणं शुल्कं हा सीते किं भविष्यति

अन्वयः

प्रतिपदार्थः

साहित्यविषयाः

छन्दः - अनुष्टुप्

दीपिकाव्याक्या

दशग्रीवो धनुरारोप्य त्वां लङ्कां नेष्यति । अथवा कञ्चिन्नृपस्त्वां दूरदेशं नेष्यतीति खेदः । इति श्रुत्वा सीता पुनः खिद्यमाना तदेव ‘कमठपृष्ठकठारेम्’ इति पद्यं पुनः पठति । पुनः पठिते पुरोहितः सक्रोधम् ॥ १६ ॥

1.17. सार्धं हरेण हरवल्लभया

रवणपुरोहितः सक्रोधम् -

सार्धं हरेण हरवल्लभया च देव्या
हेरम्बषण्मुखवृषप्रमथावकीर्णम्
कैलसमुद्धृतवतो दशकन्धरस्य
केयं च ते धनुषि दुर्मद दोःपरीक्षा |

अन्वयः

प्रतिपदार्थः

साहित्यविषयाः

छन्दः - वसन्ततिलका

दीपिकाव्याक्या

हे दुर्मद दुर्वीराग्रह! धनुषि दशकन्धरस्य दोः परीक्षा भुजवलज्ञानरूपा का, न कापि । ते तव इयं धनुरधिज्यकरणरूपा परीक्षा का न कापीत्यर्थः । किंविशिष्टस्य । कैलास गिरिं धृतवृतः । अन्यत्तु सुगमम् । यद्वा किंविशिष्टस्य ते । हरेण नैपुण्येन साथै कैलासं नेतृगुणमुद्धृतवत उचैर्हदि धारयत: । ईहड्नेता नेहगिति ज्ञानवतः । ‘हरो नैपुण्यरुद्रयोः’ इति चरकः । ‘गुरौ नेतृगुणे भावे कैलासे स्त्रीहरेऽपि च ‘ इति शाश्वतः । च पुनः वल्लभया देव्या सार्धं देवी द्योतमाना वल्लभा कार्याकार्यपरीक्षा तया सहेत्यर्थः । ‘कार्याकार्यविचारेक्षा वल्लभा च जयध्वानेः’ इति विश्वः । किंविशिष्टं नेतृगुणम् हेरम्चपण्मुखवृपा याः प्रमथाः विद्यास्ताभिराकीर्णं युक्तम् । हेरम्बो गणेशस्तस्यैवाग्रपूज्यत्वं विघ्ननाशाय । विद्या पण्मुखस्यैव शत्रुसंहारविद्या । वृपो धर्मस्यैव लोकपालनमित्र एताभिर्युक्तः । एतद्विशेपणत्रयेण सद्गुणशालित्वातिकल्पत्वरञ्जितलोकत्वादयो गुणा दर्शिताः । हरेण हरवल्लभया चेति पदद्वयेन विद्याबलत्वमुक्तम् । किं तत् । हरो रुद्रस्तद्वत् । यथा रुद्रः सर्वं जानाति तथाखिलनेतृगुणाञ्जानतस्तव धनुरुद्धरणमात्रे का परीक्षेति भावः ॥ १७॥

1.20. गृहीतहरकोदण्डे

श्रीरामः नाट्यम् -

गृहीतहरकोदण्डे रामे परिणयोन्मुखे |
पस्पन्द नन्यनं वामं जानकीजामदग्नयोः ||

अन्वयः / प्रतिपदार्थः

गृहीतहरकोदण्डे - गृहीतं हरस्य कोदण्डः धनुः एन
परिणयोन्मखे - सीतालाभाभिमुखे
रामे सति
जानकी-जाम-जामदग्न्ययोः - सीता-भार्गवयोः
वामं नयनं - वामनेत्रम्
पस्पन्दे - अस्फुरत् ।

साहित्यविषयाः

छन्दः - अनुष्टुप्

दीपिकाव्याक्या

धनुरुद्धरणटम्बरे सीताजामदग्योः शुभाशुभं द्योतयति गृहॆतीति । पस्पन्द अस्फुरत् । तदुक्तं वसन्तराजे-
चक्षुर्वामं मृगहशो जयकारि भृशं त्वरा ।
तदेव पुरुषस्यारात्स्फुरितं भयशंसनम् ॥ ‘इति ॥

1.21. पृथ्वि स्थिरा भव

लक्ष्मणः -

पृथ्वि ! स्थिरा भव , भुजंगम ! धारयैनां ,
त्वं कूर्मराज ! तदिदम् द्वितयं दधीताः ।
दिक् - कुञ्जराः ! कुरुत तत्त्रितये दिधीर्षाम् ,
रामः करोति हरकारुमुकम् - आततज्यम् ॥

अन्वयः / प्रतिपदार्थः

हे पृथ्वि ! त्वं स्थिरा भव न कम्पवेति भावः,

हे भुजङ्गम ! नागराज ! एनां पृथ्वीं धारय,
हे कूमराज ! त्वं तदिदं द्वितयं पृथ्वी-भुजगमावित्यर्थः, दधीथाः यत्नेन धारयेत्यर्थः ।
हे दिककुञ्जराः ! दिग्गजाः ! यूयं तत्त्रितये - तेषां पृथ्वयादीनां त्रितये पृथ्वीभुजङ्गराजकूम्मराजे त्रितर्यः, दिधीर्षाम् - धारणेच्छां, विशिष्ट- प्रयासेनेति भावः, कुरुत ।
कुत इति अध्याहार्थम् अत्र,
अर्थ: राम: हरकार्मुकम् ऐश्वरं धनुः आततज्यम् आरोपितमोर्वीकं करोति ।

साहित्यविषयाः

छन्दः - वसन्ततिलक

दीपिकाव्याक्या

इदं द्वितयं पृथ्वी भुजंगमं चेति । तत्रितये तस्मिंस्तृतये भूभुजंगमकूर्मरूपे । दिधीर्षाम् धर्तुमिच्छां कुरुतेति ॥ २१ ॥

1.23. उत्क्षिप्तं सह कौशिकस्य

लक्ष्मणः -

उत्क्षिप्तं सह- कौशिकस्य पुलकैः सार्थं मुखैर्नामितं ,
भूपानां जनकस्य सांशयतिया साकं समास्फालितम् ।
वैदेही -मनसा समं च सहसाकृष्टम् ततो भार्गव-
प्रौडाहंकृति दुर्मदेन सहितं तद् - भग्नं - एशं धनुः

अन्वयः / प्रतिपदार्थः

तत् ऐशं धनुः
कौशिकस्य विश्वामित्रस्य , पुलकैः आनन्दजरोमहर्षैः सह उत्क्षिप्तम् उत्थापितं,
( रामेणेति कर्त्तृपदं सर्वत्र अध्याहार्य्यम् ।)

  • रामः धनुरुत्क्षिप्तवान् कौशिकस्य चाङ्गानि आनन्देन पुलकितानि अभवत्तित्यर्थः ।

भूपानां सभासदां - प्रतिपक्षनृपायां , मुखैः सार्धं नामितम् - अवनतोक्कृतं,

  • धनुर्र्भग्नकाले एव विपक्षनृपतीनां मुखानि लज्जया अवनतानि अभवन्नित्यर्थः ।

जनकस्य संशर्यधिया रामो धनुर धिज्यं कर्तुं पारयति न वेति सन्देहबुद्धि द्वारा, साकं सह, समास्फालितं सन्ताडित,

  • धनुरास्फालनकाले एव जनकस्य सन्देहवुद्धिः निरस्तेति भावः ।

वैदेह्याः सीताया:, मनसा समं सह सहसा आकृष्टं

  • धनुराकर्षणं सीताया मनोहरणञ्च समकालमभूदित्ययः

ततः अनन्तरं , महत्ता घोरेण , भार्गवस्य परशरामस्य , प्रौढ़ा या मह इतिः अहङ्कारः तथा कन्दलः विवादः क्षत्रियविरोधः तेन, सहार्थे तृतीया, भार्गवौढ़ाहङ्क्षतिदुर्मदेन सहितमिति पाठे भार्गवस्य प्रौढ़ाहङ्क्षतिदुर्मदेन उत्कटाहङ्कारगौरवेण सहितं सहेत्यर्थः, भग्नं खण्डितं

  • धनुर्भग्नं परशुरामचत्रविरोधश्च परशुराम गर्वध्वंसश्च

समकालमभूदिति भावः ।

साहित्यविषयाः

छन्दः - शार्दूलविक्रीडितम्
अलंकारः - सहोक्ति

दीपिकाव्याक्या

अथ धनुर्भङ्गं नानारसानुभवाच्चित्ररसं दर्शयितुं पञ्चमवतारयति-उत्क्षिप्तमिति । कौशिके वत्सलरसो जातः । अत्र हर्षः संचारी हर्पोत्पुलका इति ज्ञानम् । भूपेषु भयानकरसः । अत्र दैन्यं संचारि दैन्यादेव मुखनमनम् । अत्र भीपणा त्रिविधा । तत्र प्रभावेनैव रामे भीषणत्वं, जनके करुणारसो जातः । अन्न ग्लानिः संचारी साचाधेर्जाता आध्यनुभावः संशय इति ज्ञानम् । वैदेह्यां मधुररसो जातः । रामे वीररसः । अत्र स्पर्धेद्दीपनं परशुरामो गत इति ज्ञानम् । अत्र सर्वरसानामुद्दीपनविभावो राम एव

1.25. तद्ब्रह्ममातृवधपातकि

लक्ष्मणः -

तद्ब्रह्ममातृवधपातकि मन्मथारि - क्षत्रान्तकारि करसमागम पापभीत्या ।
ऐशं धनुः निजपुरश्चरणाय नूनं देहं मुमोच रघुनन्दनपाणितीर्थे ॥

अन्वयः / प्रतिपदार्थः

तत् ऐशं धनुः, ब्रह्मा च माता च ब्रह्ममातरौ तयोर्बंधेन ब्रह्मवधेन माटबधेन चेत्यर्थः, ययाक्रमं पातकिनौ पातिव्यवन्तौ मन्मयारि: हरः क्षत्रान्तकारी परशुरामः तो तयोः करसङ्गमेन हस्तसंसर्गेण यत् पापं संसर्गज नितपातित्य- मित्यर्थः, तस्मात् भीतिः भयं तया हेतुना निजपुरश्चरणाय तत्तत्संसर्गजनितदुरितक्ष्याय रघुनन्दनस्य रामस्य पाणिदेव तीर्थं पुण्यक्षेत्रं तस्मिन् देहं स्वरूपं मुमोच तत्याज । नूनमित्युत्प्रेक्षा “भवेत् सम्भावनोत्प्रेचा प्रकृतस्य परात्मना” इति लक्षणात् । (पुरा किस कस्मिंश्चिदपराधे रुद्रः क्रोधपरोतः पञ्चमुखस्य ब्रह्मणः गिर: एक चिच्छेद ततश्च ब्रह्महत्या तमाचक्राम/ तेनासौ ब्रह्मवधपातकीति पुराणवात्ती । भगवान् भार्गवस पितुरादेगात् मातरं जधान तेनासौ माटवधपातकीति भार तोया कथावानुसन्धेया । धनुपञ्चास्य गम्भुकरसंसर्ग: प्रोक्त एव, भार्गवकरसंसर्गस्तु शम्भुशियत्वात्तस्य कदाचित् धनुर्विद्याभ्यामे तहनुपा अस्त्रयोजनादिकरणादिति बोध्यम् । यथा कश्चित् पापी कृतपापगोधनाय गड्ढादितीयेंषु देहं त्यजति तद्वदिति भावः

साहित्यविषयाः

छन्दः - वसन्ततिलका
अलंकारः -

दीपिकाव्याक्या

तत् ऐशं धनुः रामहस्ततीर्थे देहं मुमोच त्यक्तवान् । किमर्थ, निजपुरश्चरणा पापप्रणाशार्थम् । कथं पापसंभावना । ब्रह्ममातरौ ब्रह्मा च माता च ब्रह्ममातरौ तयोर्वधस्तेन पातकिनौ यो मन्मथारिक्षत्रान्तकारिणौ तयोः करसंगमाद्यत्संसर्गपापं तद्भीत्या । अन्योऽपि पापस्तीर्थे देहं त्यक्त्वा शुद्धो भावतीतिं प्रसिद्धम् ॥ २५ ॥

1.26. तृट्यद्भीमधनुः

लक्ष्मणः -

तृट्यद्भीमधनुः कठोरनिनदस्तत्राकरोद्विस्मयं
त्रस्यद्वाजिरवेरमार्गगमनं शंभोः शिरः कम्पनम्
दिग्दन्तिस्खलनं कुलाद्रिचलनं सप्तार्णवोन्मेलनम्
वैदेहीमदनं मदान्धदमनं त्रैलोक्यसंमोहनम्

अन्वयः

प्रतिपदार्थः

1.30. पित्र्यमंश उपवीतलक्षणम्

रामं प्रति परशुरामं सूचयन् –

पित्र्यमंश उपवीतलक्षणम्
मातृकं च धनुरूर्जितं दधत्
यस्ससोम इव धर्मदीधितिः
सद्विजिह्व इव चन्दन-दृमः

अन्वयः

प्रतिपदार्थः

1.38. बाहोर्बलं न विदितं न

रामः सानुयन् परशुरामं प्रति –

बाहोर्बलं न विदितं न च कार्मुकस्य ,
त्रैयम्बकस्य महिमा न तवापि सैषः ।
तच्चापलं परषुराम मम क्षमस्व ,
डिबस्य दुर्विलसितानि मुदे गुरुणाम्

अन्वयः

प्रतिपदार्थः

1.39. अयं कण्ठः कुठारस्ते

रामः सानुयन् परशुरामं प्रति –

अयं कण्ठः कुठारस्ते , कुरु राम यथोचितम् ।
निहन्तुं हन्त गोविप्रान् , न शूरा रघुवंशजाः ॥ १४ ॥

अन्वयः

प्रतिपदार्थः

1.47. भूमात्रं कियदेतदर्णवमितम्

रामः सानुयन् परशुरामं प्रति –

भूमात्रं कियदेतदर्णवमितं तन्निर्जितम् हार्यते
यद्वीरेण भवादृशेन ददता त्रिःसप्तकृत्वो जयम् ।
डिम्भोऽयं नवबाहुरीदृशमिदं घोरं च वीरव्रतम्
तत्क्रोधाद्विरम प्रसीदभगवन् जात्यैव पूजोऽसि नः ॥

अन्वयः

प्रतिपदार्थः

1.48. द्विः शरं नाभिसंधत्ते

रामः सानुयन् परशुरामं प्रति –

द्विः शरं नाभिसंधत्ते, द्विः स्थापयति नाश्रितान् ।
द्विर्ददाति न चार्थिभ्यः , रामो द्विर्नामभाषते ॥

अन्वयः

प्रतिपदार्थः

अस्मिन्नेव सन्दर्भे महानाटके अयं श्लोकः रामः-परशुराम संभाषणम् सूचयति –

रे रे क्षत्रकुलाधम ! प्रकटितं ब्रह्मण्यमस्त्रेण तो
नन्वेकं रजनीचरीं त्वमवधीः ? माता न मे ताटका ।
निक्षत्रं कृतवानहं वसुमतीं , कोऽहं तदा सत्यवाक् ?
दृष्टो नैव पराजयो मम पुरा , अद्यास्ति तद्वैभवम् ॥

अन्वयः

प्रतिपदार्थः

ताविभावपि परस्पर - स्थितौ वर्धमान - परिहीन - तेजसौ । पश्यति स्म जनता दिनात्यये पार्वणौ शशि - दिवाकराविव ॥ १७॥

अन्वयः

प्रतिपदार्थः

1.50. तच्चापमाकर्षति ताटकारौ

तदा सीता –

तच्चापमाकर्षति ताटकारौ आकर्णमाकर्णविशालनेत्रा ।
सासूयमैक्षिष्ठ विदेहजासौ कन्यां किमन्यां परिणेश्यतेति ॥

अन्वयः

प्रतिपदार्थः

1.57. रामे श्यामे सकामे

तदा सीता –

रामे श्यामे सकामे स्पृशति जनकजापाणिपद्मं प्रदत्तं
पित्रा नेत्रालिपद्मे प्रवरपुरवधूमण्डलानां मुहूर्ते।
तत्पाणिस्पर्शसौख्यं परमनुभवती सच्चिदानन्दरूपं
तत्रासीद्वाणभिन्ना रमणरतिपतेर्योगनिद्रां गतेव॥

अन्वयः

प्रतिपदार्थः

1.58.वैवाहिकं कुशिकनन्दन

वैवाहिकं कुशिकनन्दनजामदग्न्य वाल्मीकिगौतमवसिष्ठपुरोहिताद्यैः ।
रामो विधिं सह समाप्य सलक्ष्मणस्तैरानन्दन् जकजां स्वपुरं जगाम ॥

इति श्रीहनुमन्नाटके जानकीस्वयंवरॊ नाम प्रथमोऽङ्कः ॥

अन्वयः

प्रतिपदार्थः

Subsections of द्वितीयॊऽङ्कः

परिचयः

6. यातस्यास्तमनन्तरं

यातस्यास्तनन्तरं दिनकृतो वेषेण रागान्वितः ,
स्वैरं शीतकरः कमलिनीं आलिङ्गितुं योजयन् ।
शीतस्पर्षमवाप्य सम्प्रति-तया युक्ते मुखाम्बोरुहे
हास्येनेव कुमुद्वती-वनितया वैलक्ष्यपाण्डूकृतः

अन्वयः

प्रतिपदार्थः

दीपिकाव्याख्या

24. वक्त्रं वनान्ते

वक्त्रं वनान्ते सरसीरुहाणि ,
भृंगाक्षमालां जगृहुर्जपाय ।
एणीदृशस्तेप्यवलोक्य वेणीं ,
अङ्ग्ं भुजङ्गाधिपतिर्जुगोप

अन्वयः

प्रतिपदार्थः

दीपिकाव्याख्या

25. स्वर्णं सुवर्णं दहने स्वदेहं

स्वर्णं सुवर्णं दहने स्वदेहं ,
चिक्षेप कान्तिं तव दन्तपंक्तिम् ।
विलोक्य - पूर्णं मणिबीजपूर्णं ,
फलं विदीर्णं ननु दाडिमस्य

अन्वयः

प्रतिपदार्थः

दीपिकाव्याख्या

26. वदनममृतरश्मिं

वदनममृतरश्मिं पश्य कान्ते तवोर्व्याम्
अनिलतुलनदण्डेनास्य वार्धौ विधाता ।
स्थितमतुलयदिन्दुः खेचरोऽभूल्लघुत्वात्
क्षिपतिच परिपूर्त्यै तस्य तस्य तारा किमेताः

अन्वयः

दीपिकाव्याख्या

वदनमिति । हे कान्ते प्रिये, पश्य । मुखगौरवं प्रत्यक्षमवलोक्य विधाता उर्व्यां भूमौ स्थितं तव वदनं वार्धी क्षीरसमुद्रे स्थितशीतरश्मि गुणसाम्या तिरेकज्ञापनाय: अनिल एव तुलादण्डस्ते नातुलंयत्तोलयामास । तदेन्दुः लघुत्वादल्पगुणाश्रितत्वात्खेचर उन्नतोऽभूत् । तदास्य चन्द्रस्य पूर्त्यै एतास्तारा अश्विन्याद्याः क्षिपति स्म ॥ तस्य चन्द्रस्य पूत्यें यातास्ताराः किं कियन्त्यः । न कियन्त्य इत्यर्थः । गुणगौरवात् त्तव वदनमत्रैव स्थितं चन्द्रस्तु गुणाभावादूर्ध्व गत इति भावः ॥ २६ ॥

दीपिकाव्याख्या

Subsections of तृतीयॊऽङ्कः

परिचयः

Subsections of चतुर्थोऽङ्कः

परिचयः

Subsections of पञ्चमोऽङ्कः

परिचयः

Subsections of षष्ठॊऽङ्कः

परिचयः

Subsections of सप्तमोऽङ्कः

परिचयः

Subsections of अष्टमोऽङ्कः

परिचयः

Subsections of नवमोऽङ्कः

परिचयः

Subsections of दशमोऽङ्कः

परिचयः

Subsections of एकादशोऽङ्कः

परिचयः

Subsections of द्वादशोऽङ्कः

परिचयः

Subsections of त्रयोदशोऽङ्कः

परिचयः

Subsections of चतुर्दशोऽङ्कः

परिचयः