तत् ऐशं धनुः
कौशिकस्य विश्वामित्रस्य ,
पुलकैः आनन्दजरोमहर्षैः सह उत्क्षिप्तम् उत्थापितं,
( रामेणेति
कर्त्तृपदं सर्वत्र अध्याहार्य्यम् ।)
- रामः धनुरुत्क्षिप्तवान् कौशिकस्य चाङ्गानि आनन्देन पुलकितानि अभवत्तित्यर्थः ।
भूपानां सभासदां - प्रतिपक्षनृपायां , मुखैः सार्धं नामितम् - अवनतोक्कृतं,
- धनुर्र्भग्नकाले एव विपक्षनृपतीनां मुखानि लज्जया अवनतानि अभवन्नित्यर्थः ।
जनकस्य संशर्यधिया रामो धनुर धिज्यं कर्तुं
पारयति न वेति सन्देहबुद्धि द्वारा, साकं सह, समास्फालितं सन्ताडित,
- धनुरास्फालनकाले एव जनकस्य सन्देहवुद्धिः निरस्तेति भावः ।
वैदेह्याः सीताया:, मनसा समं सह सहसा आकृष्टं
- धनुराकर्षणं सीताया मनोहरणञ्च समकालमभूदित्ययः
ततः अनन्तरं , महत्ता घोरेण , भार्गवस्य परशरामस्य , प्रौढ़ा या मह
इतिः अहङ्कारः तथा कन्दलः विवादः क्षत्रियविरोधः तेन, सहार्थे
तृतीया, भार्गवौढ़ाहङ्क्षतिदुर्मदेन सहितमिति पाठे भार्गवस्य
प्रौढ़ाहङ्क्षतिदुर्मदेन उत्कटाहङ्कारगौरवेण सहितं सहेत्यर्थः, भग्नं
खण्डितं
- धनुर्भग्नं परशुरामचत्रविरोधश्च परशुराम गर्वध्वंसश्च
समकालमभूदिति भावः ।
साहित्यविषयाः
छन्दः - शार्दूलविक्रीडितम्
अलंकारः - सहोक्ति
दीपिकाव्याक्या
अथ धनुर्भङ्गं नानारसानुभवाच्चित्ररसं दर्शयितुं पञ्चमवतारयति-उत्क्षिप्तमिति ।
कौशिके वत्सलरसो जातः । अत्र हर्षः संचारी हर्पोत्पुलका इति ज्ञानम् । भूपेषु
भयानकरसः । अत्र दैन्यं संचारि दैन्यादेव मुखनमनम् । अत्र भीपणा त्रिविधा ।
तत्र प्रभावेनैव रामे भीषणत्वं, जनके करुणारसो जातः । अन्न ग्लानिः संचारी साचाधेर्जाता आध्यनुभावः संशय इति ज्ञानम् । वैदेह्यां मधुररसो जातः । रामे वीररसः । अत्र स्पर्धेद्दीपनं परशुरामो गत इति ज्ञानम् ।
अत्र सर्वरसानामुद्दीपनविभावो राम एव