1.25. तद्ब्रह्ममातृवधपातकि
लक्ष्मणः -
तद्ब्रह्ममातृवधपातकि मन्मथारि - क्षत्रान्तकारि करसमागम पापभीत्या ।
ऐशं धनुः निजपुरश्चरणाय नूनं देहं मुमोच रघुनन्दनपाणितीर्थे ॥
अन्वयः / प्रतिपदार्थः
तत् ऐशं धनुः, ब्रह्मा च माता च ब्रह्ममातरौ तयोर्बंधेन ब्रह्मवधेन माटबधेन चेत्यर्थः, ययाक्रमं पातकिनौ पातिव्यवन्तौ मन्मयारि: हरः क्षत्रान्तकारी परशुरामः तो तयोः करसङ्गमेन हस्तसंसर्गेण यत् पापं संसर्गज नितपातित्य- मित्यर्थः, तस्मात् भीतिः भयं तया हेतुना निजपुरश्चरणाय तत्तत्संसर्गजनितदुरितक्ष्याय रघुनन्दनस्य रामस्य पाणिदेव तीर्थं पुण्यक्षेत्रं तस्मिन् देहं स्वरूपं मुमोच तत्याज । नूनमित्युत्प्रेक्षा “भवेत् सम्भावनोत्प्रेचा प्रकृतस्य परात्मना” इति लक्षणात् । (पुरा किस कस्मिंश्चिदपराधे रुद्रः क्रोधपरोतः पञ्चमुखस्य ब्रह्मणः गिर: एक चिच्छेद ततश्च ब्रह्महत्या तमाचक्राम/ तेनासौ ब्रह्मवधपातकीति पुराणवात्ती । भगवान् भार्गवस पितुरादेगात् मातरं जधान तेनासौ माटवधपातकीति भार तोया कथावानुसन्धेया । धनुपञ्चास्य गम्भुकरसंसर्ग: प्रोक्त एव, भार्गवकरसंसर्गस्तु शम्भुशियत्वात्तस्य कदाचित् धनुर्विद्याभ्यामे तहनुपा अस्त्रयोजनादिकरणादिति बोध्यम् । यथा कश्चित् पापी कृतपापगोधनाय गड्ढादितीयेंषु देहं त्यजति तद्वदिति भावः
साहित्यविषयाः
छन्दः - वसन्ततिलका
अलंकारः -
दीपिकाव्याक्या
तत् ऐशं धनुः रामहस्ततीर्थे देहं मुमोच त्यक्तवान् । किमर्थ, निजपुरश्चरणा पापप्रणाशार्थम् । कथं पापसंभावना । ब्रह्ममातरौ ब्रह्मा च माता च ब्रह्ममातरौ तयोर्वधस्तेन पातकिनौ यो मन्मथारिक्षत्रान्तकारिणौ तयोः करसंगमाद्यत्संसर्गपापं तद्भीत्या । अन्योऽपि पापस्तीर्थे देहं त्यक्त्वा शुद्धो भावतीतिं प्रसिद्धम् ॥ २५ ॥