1.12. दातव्योयमवश्यमेव

रावणपुरोहितो जनकं प्रति –

दातव्योयमवश्यमेव दुहिता कस्मैचिदेनामसौ ,
दोः - क्रीडा - मषकीकृत - त्रिभुवनो लङ्कापतिर्याचते ।
तत्किं मूढवदीक्षसे ननु कथा-गोष्टीषु नः शासते ,
तद् -वृत्तानि परोरजांसि मुनयः प्राच्या मरीच्यादयः

साहित्यविषयाः

छन्दः - शार्दूलविक्रीडितम्

दीपिकाव्याक्या

रावणपुरोहितो जनकमनुवदति - दातव्येति । भो जनक, इयं सर्वोत्तमा दुहिता कस्मैचिदयाचतेऽपि वराय दातव्यैव । असौ प्रसिद्धः कुलाचारः । एतेन कौलीन्यमुक्तम्। लङ्कापतिः। अनेनैश्वर्यमुक्तम्। दोः क्रीडामशकी- कृतत्रिभुवनः । एतेन कल्पत्वमुक्तम् । भुजक्रांडानिर्जितत्रिभुवनः । यद्वा भुजक्रीडया मशकीकृतं निश्चेतनीकृतं त्रिभुवनं येन । ‘दंशाचेतनयोमेशा’ इति विश्वः । मश एव मशकः । एवं भूतो रावणः एनां स्वयमेव याचते तत्तस्मादज्ञातार्थवदीक्षसे विचारयसि । ननु वितर्के ।

प्राग्भवाः प्राच्या मरीच्यादयो मुनयस्तद्वृत्तानि रावणचारतानि कथागोष्ठीषु नोऽस्माशासते कथयन्ति । किंभूतानि । परोरजांसि शुद्धानि । यद्वा रजोभ्यो भूरेणुभ्यः पराण्यधिकानि परोरजांसि । परसूशब्दं निपातनं मन्यते भोजराजः । इत्यादिविशिष्टगुणोऽयं याचते तस्मादस्मै दातव्येति भावः ।