1.9. कमठपृष्ठकठोरमिदं
तदा सीता ( आत्मगतम् )
कमठपृष्ठकठोरमिदं धनुः मधुरमूर्तिरसौ रघुनन्दनः
कथमधिज्यमनेन विधीताम् अहह तात पणस्तवदारुणः ।
साहित्यविषयाः
छन्दः - द्रुतविलम्बितम्
दीपिकाव्याक्या
तत्र रामं दृष्ट्वा सीता विचिकित्सति - कमठेति । इदं धनुः कमठपृष्ठवत् कठोरम् । रघुनन्दनो रामो मधुरमूर्तिः सुकुमाराङ्गः । अहहेति खेदे । अनेन रामेणेंद् धनुरधिज्यमधिकृतगुणं कथं विधीयताम् । अतस्तातस्य पितुः पणः ‘कोऽपि धनुरधिज्यं करिष्यति तस्मै सीतां दास्यामि’ इत्येवरूपा प्रतिज्ञा स्तवाय स्तुत्यै दारुणोऽयोग्यः अस्तुत्य इति । यद्वा अविसर्गपाठे हे तात, तव पणो दारुण इति मानसोक्तिः । तातपणश्चेन्ना भविष्यत्तहं राममन्त्रिप्यामीति भावः । ‘स्तवः स्तोत्रंस्तुतिर्नुति:’ इत्यमरः ॥ ९ ॥