Subsections of प्रार्थना

उपोद्घातः

नान्दी मङ्गलवचनमिति -

अष्टाभिर्दशभिर्वापि नान्दी द्वादशभिः पदैः ।
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्।|

0.1. कल्याणानां निधानं

कल्याणानां निधानं कलिमलमथनं, पावनं पावनानां,
पाथेयं यन्मुमुक्षोः सपदि परपद-प्राप्तये प्रस्थितस्य ।
विश्राम-स्थानमेकं कविवर-वचसां जीवनं सज्जनानां,
बीजं धर्म-दृमस्य प्रभवतु भवतां भूतये राम-नाम ।। १

अन्वयः

कल्याणानां निधानम् , कलिमलमथनं, पावनानां पावनम् , सपदि परपदप्राप्तये प्रस्थितस्य यन्मुमुक्षोः पाथेयम् , कविवर-वचसां एकं विश्रामस्थानम् , सज्जनानां जीवनम्, धर्मदृमस्य बीजं रामनाम भवतां भूतये प्रभवतु ।।

प्रतिपदार्थः

कल्याणानां = शुभानां , निधानं = निधिः
(कल्याणानां निधानं यस्मिन् निधीयन्ते तत् ) कल्याणानां निधानं = शुभानां निधिः
कलिमलमथनं = पापहारी , कलेः = कलियुगस्य ,मलं = पापं , मथनं = नाशनं करोति ,
पवनानां पावनं = पवित्राणां मध्ये पवित्रम् (पवित्रतमम् )
सपदि = शीघ्रम् , परपदप्राप्तये = मोक्षप्राप्तये ,
प्रस्थितस्य = प्रवृत्तस्य , मुमुक्षोः = मोक्षेच्छुकः मुनेः , पाथेयं = मार्गेषु आहारोपयोगिद्रव्यं
कविवरवचसाम् = वाल्मीकादि कविश्रेष्ठानां साहितीवैभवस्य,
एकं विश्रामस्थानम् = गम्यस्थानम् (लक्ष्यम् )
जीवनं सज्जनानाम् = सत्पुरुषाणां प्राणसदृशम्
धर्मदृमस्य = धर्म इति नाम्नि वृक्षस्य ( यः धर्मः माहावृक्षः इव सम्स्त विश्वरक्षणारूप छायां परिकल्पयति ), बीजं = हेतुः
यत् = तादृश , रामनाम = रामनाममहामन्त्रः ,
भवतां = सकलचराचर भूतानाम् , भूयते = ऐश्वर्यम् सम्पदाम् कल्पयितुम् , प्रभवतु = समर्था भवतु

तात्पर्यम्

व्याक्या

धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति
धर्मेण पापमपनुदन्ति धर्मे सर्वं प्रतिष्ठितम् तस्मादद्धर्म परमं वदन्ति ।।
—नारायणोपनिषद्

साहित्यविषयाः

छन्दः - स्रग्धरा

दीपिकाव्याक्या

तावच्छ्रीरामचन्द्रगुणचक्रवालवर्णनेच्छुः कविः स्वाभीष्टदेवतानामान्तरिताशीपूर्वां नान्दीमवतारयति - कल्याणानामित्यादिद्वादशपदैः । तदुक्तं नाटकावतारे-

‘अष्टाभिर्दशभिर्वापि नान्दी द्वादशभिः पदैः । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्।।’ इति ।

नान्दी मङ्गलवचनमिति । अत्र संक्षेपतोऽर्थोद्घाटनं क्रियते विस्तरस्य श्रद्धाविच्छेदकत्वात् । रामनाम भवतां भूतये प्रभवतु इत्यन्वयः । भूतये ऐहिकपारलौकिकैश्वर्याय मोक्षाय वा ‘भूतिरैश्वर्यमोक्षयोः’ इति चरकः । मेलकोपमालंकारः ।

उक्तं च वीरभानौ ‘विशेषणार्थनिर्भर्ता यद्यनेकार्थभाक्पदः । चाक्यवादिविहीनोऽपि मेलकः सम्मतो बुधैः ॥’ इति । तत्र विशेपणैस्तद्रूपप्रदत्वं द्योतयति । कल्याणानां निधानं निधीयन्ते यस्मिंस्तदिति विग्रहः । कलिमलमथनम्। एतेन पापहारित्वमुक्तम् | कविवरवचसां वाल्मीक्यादिवाचाम् एकं विश्रामस्थानम् । एतेन तदितरस्यासद्वर्णनत्वमुक्तम् । एतेन पत्रयेणैहिकैश्वर्यप्रदत्वमुक्तम् । पारलौकि- कर्श्वयप्रदत्वमाह-पावनानां ब्रह्मादीनामपि पावनम् । एतेन तत्तल्लोकप्रदत्वमुक्तम् । अतः पारलौकिकैश्वर्यप्रदत्वमायाति । अथ मोक्षप्रदत्वमाह - परपदप्राप्तचे परस्मिन्त्र- ह्माण पदं स्थानं तत्प्राप्तये प्रस्थितस्य मुमुक्षाः पाथेयं मार्गे साधु । ननु नाम्नैव मोक्षः कथं धर्मादीनां सत्त्वशोधकत्वेन मोक्षदत्वमिति चेत्तत्राह – धर्मद्रुमस्य वीजम् नानि कीर्तिते सर्वे धर्माः कृता भवन्ति । अथोत्पत्तिवीजे पुष्पफलादिकं सर्वमस्तीति । सज्जनानाम् ’ जीवनानाम् ’ इति वा पाठः । जीवनं प्रकृतिस्तस्यापि जीवनं चेतनकर्तृ । उक्तं च- ’ यतो जीवत्वमायाति जीवः प्रकृतितः स्वतः । ’ इति । एतैर्विशेषणैर्मोक्षप्रदत्वमुक्तम् ॥ १ ॥

0.2. यं शैवाः समुपासते

यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनः,
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं नो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः॥

अन्वयः

यं शैवाः शिवः इति , वेदान्तिनः ब्रह्मन् इति , बौद्धाः बुद्धः इति, प्रमाणपटवः नैयायिकाः कर्ता इति, जैनशासनरताः अर्हन् इति , मीमांसकाः कर्मेति समुपासते सः अयं त्रैलोक्यनाथः हरिः नः वाञ्छितफलं विदधातु ।

प्रतिपदार्थः

व्याक्या

साहित्यविषयाः

छन्दः - शार्दूलविक्रीडितम्

दीपिकाव्याक्या

अथ विद्यावानिति नेतृगुणं वक्तुं पद्यमवतारयति-यमिति ।
यं रामं शैवाः शिवभक्ताः शिवेति नाम्ना समुपासते ‘महारुद्रादभूत्प्रकृतिरतः सूत्रं ततोऽहमिति ततो विश्वम् ‘ इति श्रुतेः ।
वेदान्तिनो ब्रह्मेति ‘एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किंचन’ इति श्रुतेः ।
बौद्धा बुद्ध इति ‘प्राण्यालम्भनं संसृति नन्दयेति माम् ‘ इति श्रुतेः ।
प्रत्यक्षानुमानोपमानशब्दाभावार्थप्रतिपत्ति प्रमाणानीति प्रमाणेष्वेव निपुणा नैयायिकाः कर्तेति ‘सनातनाः पशवः प्रविशन्ति प्रमेयानुभूतैः कर्तेच ततः’ इति श्रुतेः ।
जैनाज्ञाभिरता अर्हन्निति ‘स्वभाव एवेश्वरो नान्योऽस्ति कदाप्यस्यानीहशत्वापत्तेः ‘ इति श्रुतेः ।
मीमांसकाः कर्मेति ‘कर्मणा जायते नश्यति भयाभयसुखानि’ इति श्रुतेः ।
एतैस्तदुपशिक्षितमगरेव यमुपासते सोऽयं रामो वाञ्छितफलं विदधातु । एतेन विद्यावत्त्वमुक्तम् । हरिरित्यनेन दुःखहारित्वात्परप्रेमगुणो दर्शितः । त्रैलोक्यवासिजनैस्तत्तद्देवताभजनेन तत्तत्फलं प्रतिनाथ्यते याच्यते इत्यनेन दातृत्वमुक्तम् ॥ ३ ॥ ४॥

0.3. अन्य प्रार्थनाश्लोकाः

महानाटकात् –

बालक्रीडनमिंदुशेखरधनुर्भगावधि प्रह्वता ,
ताते काननसेवनावधि , दया सुग्रीव-सख्यावधि ।
आज्ञा वारिधिबंधनावधि यशो लङ्केशनाशावधि ,
श्रीरामस्य पुनातु लोकवशता जानक्युपेक्षावधि ॥ ३

नमामि देवं सुरकल्पवृक्षं, धनुर्धरं नीरदनीलगात्रम् ।
गुणाभिरामं कमलाननं तं, यदास्पदं न क्षणमुज्झति श्रीः ॥ ४ ॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ५ ॥

मनोऽभिरामं नयनाभिरामं, वचोऽभिरामं श्रवणाभिरामम् ।
सदाभिरामं संतताभिरामं, वन्दे सदा दाशरथिञ्च रामम् ॥ ६ ॥

योरामचन्द्र भुवि विस्त्रुत कीर्त्तिचन्द्र ।
स्स्मेरास्यचन्द्र रजनोचरपद्मचन्द्र । ।
आनन्दचन्द्र । रघुवंश समुद्रचन्द्र !
सीतामन: कुमुदचन्द्र । नमो नमस्ते ॥ ७ ॥