0.1. कल्याणानां निधानं

कल्याणानां निधानं कलिमलमथनं, पावनं पावनानां,
पाथेयं यन्मुमुक्षोः सपदि परपद-प्राप्तये प्रस्थितस्य ।
विश्राम-स्थानमेकं कविवर-वचसां जीवनं सज्जनानां,
बीजं धर्म-दृमस्य प्रभवतु भवतां भूतये राम-नाम ।। १

अन्वयः

कल्याणानां निधानम् , कलिमलमथनं, पावनानां पावनम् , सपदि परपदप्राप्तये प्रस्थितस्य यन्मुमुक्षोः पाथेयम् , कविवर-वचसां एकं विश्रामस्थानम् , सज्जनानां जीवनम्, धर्मदृमस्य बीजं रामनाम भवतां भूतये प्रभवतु ।।

प्रतिपदार्थः

कल्याणानां = शुभानां , निधानं = निधिः
(कल्याणानां निधानं यस्मिन् निधीयन्ते तत् ) कल्याणानां निधानं = शुभानां निधिः
कलिमलमथनं = पापहारी , कलेः = कलियुगस्य ,मलं = पापं , मथनं = नाशनं करोति ,
पवनानां पावनं = पवित्राणां मध्ये पवित्रम् (पवित्रतमम् )
सपदि = शीघ्रम् , परपदप्राप्तये = मोक्षप्राप्तये ,
प्रस्थितस्य = प्रवृत्तस्य , मुमुक्षोः = मोक्षेच्छुकः मुनेः , पाथेयं = मार्गेषु आहारोपयोगिद्रव्यं
कविवरवचसाम् = वाल्मीकादि कविश्रेष्ठानां साहितीवैभवस्य,
एकं विश्रामस्थानम् = गम्यस्थानम् (लक्ष्यम् )
जीवनं सज्जनानाम् = सत्पुरुषाणां प्राणसदृशम्
धर्मदृमस्य = धर्म इति नाम्नि वृक्षस्य ( यः धर्मः माहावृक्षः इव सम्स्त विश्वरक्षणारूप छायां परिकल्पयति ), बीजं = हेतुः
यत् = तादृश , रामनाम = रामनाममहामन्त्रः ,
भवतां = सकलचराचर भूतानाम् , भूयते = ऐश्वर्यम् सम्पदाम् कल्पयितुम् , प्रभवतु = समर्था भवतु

तात्पर्यम्

व्याक्या

धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति
धर्मेण पापमपनुदन्ति धर्मे सर्वं प्रतिष्ठितम् तस्मादद्धर्म परमं वदन्ति ।।
—नारायणोपनिषद्

साहित्यविषयाः

छन्दः - स्रग्धरा

दीपिकाव्याक्या

तावच्छ्रीरामचन्द्रगुणचक्रवालवर्णनेच्छुः कविः स्वाभीष्टदेवतानामान्तरिताशीपूर्वां नान्दीमवतारयति - कल्याणानामित्यादिद्वादशपदैः । तदुक्तं नाटकावतारे-

‘अष्टाभिर्दशभिर्वापि नान्दी द्वादशभिः पदैः । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्।।’ इति ।

नान्दी मङ्गलवचनमिति । अत्र संक्षेपतोऽर्थोद्घाटनं क्रियते विस्तरस्य श्रद्धाविच्छेदकत्वात् । रामनाम भवतां भूतये प्रभवतु इत्यन्वयः । भूतये ऐहिकपारलौकिकैश्वर्याय मोक्षाय वा ‘भूतिरैश्वर्यमोक्षयोः’ इति चरकः । मेलकोपमालंकारः ।

उक्तं च वीरभानौ ‘विशेषणार्थनिर्भर्ता यद्यनेकार्थभाक्पदः । चाक्यवादिविहीनोऽपि मेलकः सम्मतो बुधैः ॥’ इति । तत्र विशेपणैस्तद्रूपप्रदत्वं द्योतयति । कल्याणानां निधानं निधीयन्ते यस्मिंस्तदिति विग्रहः । कलिमलमथनम्। एतेन पापहारित्वमुक्तम् | कविवरवचसां वाल्मीक्यादिवाचाम् एकं विश्रामस्थानम् । एतेन तदितरस्यासद्वर्णनत्वमुक्तम् । एतेन पत्रयेणैहिकैश्वर्यप्रदत्वमुक्तम् । पारलौकि- कर्श्वयप्रदत्वमाह-पावनानां ब्रह्मादीनामपि पावनम् । एतेन तत्तल्लोकप्रदत्वमुक्तम् । अतः पारलौकिकैश्वर्यप्रदत्वमायाति । अथ मोक्षप्रदत्वमाह - परपदप्राप्तचे परस्मिन्त्र- ह्माण पदं स्थानं तत्प्राप्तये प्रस्थितस्य मुमुक्षाः पाथेयं मार्गे साधु । ननु नाम्नैव मोक्षः कथं धर्मादीनां सत्त्वशोधकत्वेन मोक्षदत्वमिति चेत्तत्राह – धर्मद्रुमस्य वीजम् नानि कीर्तिते सर्वे धर्माः कृता भवन्ति । अथोत्पत्तिवीजे पुष्पफलादिकं सर्वमस्तीति । सज्जनानाम् ’ जीवनानाम् ’ इति वा पाठः । जीवनं प्रकृतिस्तस्यापि जीवनं चेतनकर्तृ । उक्तं च- ’ यतो जीवत्वमायाति जीवः प्रकृतितः स्वतः । ’ इति । एतैर्विशेषणैर्मोक्षप्रदत्वमुक्तम् ॥ १ ॥