Subsections of परिचयः
उपोद्घातः
साहित्ये हनुमन्नाटकस्य वैशिष्ठ्यम्
हनुमन्नाटकम् एकं विशिष्टं नाटकम् । अस्मिन् ग्रन्थे 14 अङ्काः 579 श्लोकाः सन्ति । अस्यैव ग्रन्थस्य “महानाटकम्” इति पाठान्तरं लभ्यते । महानाटके 9 अङ्काः 791 श्लोकाः सन्ति । उभयोरपि प्रायशः 300 समान श्लोकाः विद्यन्ते । अनर्घराहवं , प्रसन्नराघवं , शाकुंतलं, महावीरचरितं , वाल्मीकिरामायणं , भोजप्रप्रबन्धः ध्वन्यालोकेत्यादि ग्रन्थेषु हनुमन्नाटकात् बहवः श्लोकाः उदाहृताः तत्र तत्र दृश्यन्ते ।
ग्रन्थस्य स्थूलस्वरूपम्
- जानकीस्वयंवरम्
- रामजानकीविलासम्
- मारीचागमनम्
- सीतापहरणम्
- श्रीराम-वियोग-विलापम्
- हनुमतः लङ्कायात्रा
- रामसॆतुबन्धनम्
- रावण-अङ्गद संवादः
- मंडॊदरी हितबोधः
- रावणप्रपंचम्
- कुंभकर्णवध
- मेघनाथवध
- लक्ष्मणमूर्छा
- श्रीरामविजयम्
अवाल्मीकीय अंशाः
- रावणपुरोहित-जनक संवादः
- वालि-श्रीराम सम्भाषणम्
- रावण-मण्डोदरी संवादः
- अङ्गदरायबारः
ग्रन्थस्य ऐतिहास्यम्
हनुमन्नाटकमिदम् रसालंकारपरिपृष्टम् निदग्ध वर्णनाभरितम् प्रबन्धायमानम् महानाटकमिति तत्तत् ग्रन्थप्रकाशकैः प्रस्तावनासु परामृष्टम् स्वीय प्रस्तावनायाः सर्वेपि प्रकाशकाः हनुमन्नाटकस्थ चतुर्दश अंके परिदृश्यमानं
रचितमनिलपुत्रेणाथ वाल्मीकिनाब्धौ
निहितममृतबुध्या प्राङ्महानाटकं यत्
सुमतिनृपतिभोजेनोद्धृतं तत्क्रमेण
ग्रथितमवतु विश्वं मिश्रदामोदरेण | ह. ना . 14.96
इत्यादिश्लोकमुदाहरन्ति | एतावाता महर्षिः वाल्मीकिः हनुमत्प्रणेतम् एतं प्रबन्धम् दृष्ट्वा स्वकाव्यस्य निरादरणम् आशंकमानः हनूमंतं प्रार्थयामास इति
यावत् स्थास्यन्ति गिरयस्सरितश्च महीतले ।
तावद्रामायणकथा लोकेषु प्रचरिष्यति ।।1.2.36।।
इति विधातृ वचनम् समर्थयितुम् स्वीयं महानाटकप्रबन्धं समुद्रे प्राक्षिपदिति कलान्तरे भोजः तं समुद्धृत्य निजसभामहापण्डितेन दामोदरमिश्रेण प्रकाशयामास इति ज्ञायते।
भोजस्य कालः प्रायशः ११ शताब्दः । अतः दामोदरमिश्रवर्याः अपि ११ शताब्दीकः एव ।